________________
आगम
(४३)
प्रत
सूत्रांक ||३६||
दीप
अनुक्रम
[११११]
*%*%%**%*6**
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [२९],
मूलं [ - ] / गाथा || ३६...||
निर्युक्ति: [५०३]
अथ एकोनत्रिंशं सम्यक्त्वपराक्रमाध्ययनम् ।
व्याख्यातमष्टाविंशमध्ययनमे कोनत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने ज्ञानादीनि मुक्तिमार्गत्वेनाक्तानि तानि व संवेगादिमूलान्यकर्मताऽवसानानि च तथा भवन्तीति तानीहोच्यन्ते, यद्वाऽनन्तराध्ययने मोक्ष|| मार्गगतिरुक्ता इह पुनरप्रमाद एव तत्प्रधानो पायो, ज्ञानादीनामपि तत्पूर्वकत्वादिति, स एव वर्ण्यते, अथवाऽनन्तराध्ययने मुक्तिमार्गगतिरुक्ता सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते इत्यनेन सम्बन्धत्रयेणायातमिदमध्ययनम्, अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि व्यावर्ण्य नामनिष्पन्ननिक्षेपोऽभिधेयः, स च नामपूर्वक इत्येतन्नामनिर्देशायाह निर्युक्तिकृत्
| आयाणपरणेयं सम्मत्तपरक्कमंति अज्झयणं । गुण्णं तु अप्पमायं एगे पुण वीयरागसुयं ॥ ५०३ ॥
आदीयतइत्यादानम् आदिः प्रथममित्यर्थः तच तत्पदं च निराकाङ्क्षतयाऽर्थगमकत्वेन वाक्यमेवादानपदं तेन, | उपचारतचेह तदभिहितमपि तथोक्तं, तत आदानपदाभिहितेन प्रक्रमान्नाम्ना 'इदमिति प्रस्तुतं सम्यक्त्वपराक्रममितिः- उपप्रदर्शने, उच्यत इति शेषः 'अध्ययनं' प्रागुक्तनिरुक्तं, वक्ष्यति हि "इह खलु सम्मत्तपरकमे णामऽज्झ
Forest Use Only
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः अथ अध्ययनं २९ "सम्यक्त्व" आरभ्यते
~ 1137 ~