________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८],
मूलं [-]/गाथा ||९-१२|| नियुक्ति: [५०२...]
(४३)
प्रत सूत्रांक ||९-१२||
एवं च स्थितमेतद्-अवगाहेन कार्यरूपेण लक्ष्यमाणत्वादवगाहलक्षणं नमः, तथा वर्तन्ते-भवन्ति भावास्तेन तेन ॥ नारूपेण तान् प्रति प्रयोजकत्वं वर्तना सा लक्षणं-लिङ्गमस्येति वर्त्तनालक्षणः, कोऽसौ ?-कालः,इदमुक्तं भवति-यदमी
शीतवातातपादयः ऋतुविभागेन भवन्ति यच्च केचिच्छशधरकरनिकरानुकारिपारतीप्रसवाः अन्ये तु तुहिनशिलाश-12 कलविशदकुन्दमालतीकुसुमवासवाहिनः अपरे च केशरतिलकुरुबकशिरीषाकोलप्रसूनजृम्भमाणपरागभाजः तदितरे |च करिदशनसकलधवलमल्लिकापहलपरिमलहारिणः परे च कदम्बकेतकरजःपूरपूरिताम्बराः अपरे तु सप्तच्छद
कुसुमरजोधूलिधूसरितविधविश्वम्भराः अविशिष्टविशिष्टवस्तवः प्रकाशन्ते क्रमेणैव भुवनभागांस्तदवश्यममीषां नैयत्यहेतुना केनापि भवितव्यं , स च काल इत्यलं प्रसङ्गेन, सर्वथा वर्तनया लक्ष्यमाणत्वादस्ति काल इति स्थितं, तथा || 'जीवः' जन्तुरुपयोगो-मतिज्ञानादि लक्षणं-रूपं यस्यासौ उपयोगलक्षणो, मतिज्ञानादिको दुपयोगस्तद्धर्मः, स च
खसंविदित एवेति, तदनुभवतो रूपाद्यनुभवादिव घटादिर्जीवो लक्ष्यत इति तलक्षणमुच्यते, अपश्चितं चैतदिहैय प्रागन्यत्र चेति न पुनः प्रतन्यते, अत एव 'ज्ञानेन' विशेषग्राहिणा 'दर्शनेन च' सामान्यविपयेण 'सुखेन च' आहादरूपेण दुःखेन च-तद्विपरीतेन प्रक्रमालक्ष्यत इति गम्यते, न हि ज्ञानादीन्यजीवेषु कदाचिदुपलभ्यन्त इतिकृत्वा।। सम्प्रति विनेयानां पढतरसंस्काराधानाय उक्तलक्षणमनूध लक्षणान्तरमाह-'ज्ञानं च' उक्तरूपमेवं दर्शनं चैव चरित्रं च तपस्तथा 'वीर्य' वीर्यान्तरायक्षयोपशमसमुत्थं सामर्थ्यलक्षणम् 'उपयोगश्च' अवहितत्वं, किमित्याह-'एतत्' ज्ञानादि
358
दीप अनुक्रम [१०८४
-१०८७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1119~