SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१८|| दीप अनुक्रम [82] उत्तराध्य. वृत्तिः ॥ ५४ ॥ “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१८|| अध्ययनं [१], वन्द कजनस्य गुरुवदनानवलोकनादिनाऽप्रीतिभावात्, 'नैव' इति पूर्ववत्, कृतिः-वन्दनकं तदर्द्धन्ति कृत्याः 'दण्डादित्वाद् यप्रत्ययः' ते चार्थादाचार्यादयस्तेषां 'पृष्ठतः' पृष्ठदेशमाश्रित्य द्वयोरपि मुखादर्शने तथाविधरसवत्ताऽभावादिदोषसंभवात्, 'न युज्यात् ' न सङ्घट्टयेद् अत्यासन्नोपवेशादिभिः, 'उरुणा' आत्मीयेन, 'उरुं' कृत्यसम्बन्धिनं, | तथाकरणेऽत्यन्ताविनयसम्भवात् उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहारस्य, 'शयने' शय्यायां शयित आसीनो वेति शेषः किमित्याह-न प्रतिशृणुयात्, किमुक्तं भवति ?-कदाचिच्छय्यागतो गुरुणाऽऽकारित उक्तो वा लं प्रति न तथास्थित एवावज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयात् किन्तु गुरुवचनसमनन्तरमेव सम्भ्रान्तचेता विनयविरचितकूराञ्जलिः समीपमागत्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवन्निच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ पुनखमेवाह Education intimation नेव पहत्थियं कुज्जा, पक्खपिंडं व संजए। पाए पैसारिए वावि, न चिट्ठे गुरुणंतिए ||१९|| सूत्रम् ) व्याख्या - नैव 'पर्यस्तिकां' जानुजङ्घोपरिवत्रवेष्टनाऽऽत्मिकां कुर्यात्, 'पक्षपिण्डं या' वायकायपिण्डात्मकं, 'संयतः' साधुः, तथा पादौ प्रसारयेत् वाऽपि नैव, वा समुच्चयार्थः, अपिः किं पुनरित इतो विक्षिपेदिति निदर्शनार्थः, अन्यथ-' न तिष्ठेत् ' नाऽऽसीत, क १-गुरूणामन्तिके इति, प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्य१ पसारे तो वाषि प्र० । निर्युक्ति: [६४...] For Fans Only ~111~ अध्ययनम् १ ॥ ५४ ॥ wrp मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy