________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/गाथा ||१७||
नियुक्ति: [६४...]
(४३)
REAK
प्रत
सूत्रांक
||१७||
यथा हि अस्य स्वयंदमनान्महागुणः तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरातो न तथेति सूत्रार्थः ॥ १६ ॥ गुर्वनुवृत्त्यात्मकं प्रतिरूपविनयमाहपडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा।आवि वा जइवा रहस्से, नेव कुजा कयाइवि ॥१७॥(सूत्रम्) | व्याख्या-'प्रत्पनीकम् ' इति प्रतिकूलं, चः पूरणे, चेष्टितमित्युपस्कारः, भावप्रधानत्याद्वा निर्देशस्य प्रत्सनीकत्वं, केषाम् ?-'बुद्धानाम्' अवगतवस्तुतत्त्वानां गुरूणामितियावत् , कया ?-वाचा, किं त्वमपि किञ्चिजानीपे ? इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्वमस्माकं प्ररूपितमित्याद्यात्मिकया बा, अथवा 'कर्मणा' संस्तारकातिक्रमणकरचरणसंस्पर्शनादिना 'आविः' जनसमक्षं प्रकाशदेश इतियावत् , यदिवा 'रहस्ये विविक्तोपाश्रयादी 'न' इति निषेधे 'एवः' अवधारणे, स च 'शत्रोरपि गुणा प्रायाः, दोषा वाच्या गुरोरपी'ति कुमतनिराकरणार्थः, कुर्यात्' इति विदध्यात् , 'कदाचित् ' परुषभाषणादावपि इति सूत्रार्थः ॥ १७ ॥ पुनः शुश्रूपणात्मकं तमेवाह-15 ण पक्खओण पुरओ, व किच्चाण पिट्टओ। न जुजे उरुणा ऊरु, सयणे ण पडिस्सुणे ॥१८॥(सूत्रम्) | व्याख्या-'न पक्षतः' दक्षिणादिपक्षमाश्रित्य, उपविशेदिति सर्वत्रोपस्कारः, तथोपवेशने तत्पनिसमावेशतः तत्साम्यापादनेनाविनयभावात् , गुरोरपि वक्रावलोकने स्कन्धकन्धरादिवाधासम्भवात् , न 'पुरतः' अग्रतः, तत्र
दीप अनुक्रम [१७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~110~