________________
आगम
(४३)
प्रत
सूत्रांक
||२१
-३७||
दीप
अनुक्रम
[१०२७-]
-१०४३]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||२१-३७||
अध्ययनं [२६],
Education intimational
'पाणिदया तवहेउ ति 'प्राणिदयाहेतोः' वर्षादौ निपतत्यप्कायादिजीवरक्षायै तपः —-चतुर्थादिरूपं तद्धेतोभ, तथा शरीरस्य व्यवच्छेदः - परिहारस्तदर्थे च उचितकाले संलेखनामनशनं वा कुर्वन्, भक्तपानगवेषणं न कुर्यादिति सर्वत्र योज्यं, कारणत्वभावना चामीषां प्राग्वत्, तद्गवेषणां च कुर्वन् केन विधिना कियत्क्षेत्रं पर्यटेदित्याह - 'अवशेष ' भिक्षाप्रक्रमात्पात्रनिर्योगोद्धरितं चशब्दस्य गम्यमानत्वादवशेषं च पात्रनिर्योगमेव, यद्वाऽपगतं शेषमपशेषं, कोऽर्थः १ - समस्तं, 'भाण्डकम्' उपकरणं 'गिज्झ'त्ति गृहीत्वा चक्षुषा प्रत्युपेक्षेत, उपलक्षणत्वात्प्रतिलेखयेच, इह च विशेषत इति गम्यते, सामान्यतो अप्रत्युपेक्षितस्य ग्रहणमपि न युज्यत एव यतीनाम् उपलक्षणत्वाचास्य तदादाय 'परम्' उत्कृष्टम् 'अर्धयोजनात्' अर्धयोजनमाश्रित्य ल्यब्ठोपे पञ्चमी, परतो हि क्षेत्रातीतमशनादि भवेत्, विहरन्यस्मिन् प्रदेश इति विहारस्तं 'विहरए' ति विहरेत- विचरेन्मुनिः । इत्थं वित्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत्कुर्यात्तदाह- चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्वकं बद्धा 'भाजनं' पात्रं स्वाध्यायं ततः कुर्यात् सर्वभावा - जीवादयस्तेषां विभावनं (कं) - प्रकाशकं सर्वभावविभावक, पठ्यते च - 'सबदुक्खविमोक्खणं'ति प्राग्वत्, पौरुप्याः प्रक्रमाच्चतुर्थ्याः चतुर्भागे-चतुर्थांशे शेष इति गम्यते, वन्दित्वा 'ततः' इति | खाध्याय करणादनन्तरं 'गुरुम्' आचार्यादि प्रतिक्रम्य कालस्य 'शय्यां' वसतिं 'तुः' पूरणे प्रतिलेखयेत्, ततश्च 'पासवणुचारभूमिं चत्ति, भूमिशब्दस्य प्रत्येकमभिसम्बन्धात् प्रश्रवणभूमिं उच्चारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिकां
For Final P
निर्युक्ति: [४८६...]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
~1085~