________________
आगम
(४३)
प्रत
सूत्रांक
||२१
-३७||
दीप
अनुक्रम
[१०२७-]
-१०४३]
उतराध्य.
बृहद्वृत्तिः ।।५४२॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [२६], मूलं [ - ] / गाथा ||२१-३७||
निर्युक्तिः [४८६...]
IIS SIS
शेषः, अत्र च त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचिता भवन्ति, स्थापना चेयम् ॥ 5॥ एतेषु च कः शुद्धः को वाडशुद्धः इत्याह- 'प्रथमपदम्' इहैवोपदर्शिताद्यभङ्गरूपं 'प्रशस्तं' निर्दोषतया लाध्यं t St शुद्धमितियावत्, शेपाणि तु प्रक्रमात्पदानि द्वितीयादिभङ्गात्मकान्यप्रशस्तानि तेषु न्यूनताद्यन्यतमदो sssss पसम्भवात्, ततः प्रथमभङ्गानुपातिन्येव प्रतिलेखना विधेयेत्युक्तं भवति । एवंविधामध्येनां कुर्वता यत्परिहर्त्तव्यं तत् काकोपदेष्टुमाह-प्रतिलेखनां कुर्वन् 'मिथःकथा' परस्परसंभाषणात्मिकां करोति, जनपदकथां वा, ख्यादिकथोपलक्षणमेतत् ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति - अपरं पाठयति, स्वयं प्रतीच्छति या आलापादिकं गृह्णाति, य इति गम्यते, स किमित्याह, 'पुढवी'ति स्पष्टं, नवरं 'पुढवी आउकाय'त्ति पृथिव्यप्काययोः 'प्रतिलेखनाप्रमत्तो' मिथः कथादिना तत्रानवहितः सन् पण्णामपि, आस्तामेवैकादीनामित्यपिशब्दार्थः, विराधकश्चैवं-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृत घटादिकमपि प्रलोठयेत्, ततस्तज्जलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, प्लावनातश्च विराध्यन्ते, यत्र चाग्निस्तत्रावश्यं वायुरिति षण्णामपि द्रव्यतो विराधकत्वं, भावतस्तु प्रमत्ततयाऽन्यथाऽपि विराधकत्वमेव, उक्तं हि"ईय दवओ उ उण्हं विराहतो भावतो इहरहावि । उवउत्तो पुण साहू संपत्तीए वडवहओ उ ॥ १ ॥” तदनेन १ एवं द्रव्यतः षण्णां विराधको भावत इतरथाऽपि । उपयुक्तः पुनः साधुः संपत्तावप्यवधक एव ॥ १ ॥
Education infamational
For Fans Only
सामाचा
र्यध्ययनं.
२६
~1082~
॥५४२॥
www.janbay.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः