________________
आगम
(४३)
प्रत
सूत्रांक
||१६
-३३||
दीप
अनुक्रम
[९७८
-९९५]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा ||१६-३३||
अध्ययनं [२५],
Education intemational
अतिविनीततया प्रभुचित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैनमपि भगवन्तं देवेन्द्रप्रमुखाः समस्तसुरासुरमनुजसमूहा इत्युपस्कारः, पठ्यते च जहा चंदे गहाईए, चिड़ंती पंजलीउडा । णमंसमाणा वंदंती, उद्धत्तमणहारिणो ॥१॥" चि, अत्र यथा 'चन्द्रे' चन्द्रविषये ग्रहादिकास्तिष्ठन्तीति (न्ति) प्राञ्जलिपुटाः कोऽर्थः १ -- तदायत्यै (ताए) वासते, अन्यच - नमस्यन्तः प्रक्रमात्तमेव 'वन्दन्ते' स्तुवन्ति, अनेन तेषां भक्तियुक्तितामाह, 'वंदंतीउद्धत्त'त्ति सन्धिप्रयोगेण | इतिशब्दान्तर्भावादितीत्येवं प्रक्रमात्काश्यपं तिष्ठन्ति प्राञ्जलिपुटास्तं च नमस्यन्तो वन्दन्ते, के इत्याह- 'उद्धत्तमणहा|रिणोति औद्धत्यम् - अहङ्कारस्तत्प्रधानं मन औद्धत्यमनस्तद्धरणशीलाः औद्धत्यमनोहारिणः - अत्यन्तशान्तचित्तवृत्तयो, यतय इत्यर्थः, पूर्वापरनिपातस्यान्त्रातन्त्रत्वेन वा मनऔद्धत्यहारिणः, औद्धत्यग्रहणं चास्यैव सकलदोषमूलत्वात् पठन्ति च - 'उद्धत्तमणगारिणो 'ति अत्र चोद्धर्तुम् - उत्क्षेमं भवपङ्कमनमात्मानमिति गम्यते, अगारिणोगृहिणस्तद्विपरीता अनगारिणो यतयः, क्रियाकारकयोजना प्राग्वत्, इह च धर्मार्थिनामेव अभ्यर्हितत्वात् काश्यपो धर्ममुखमित्यभिप्रायः । अनेन प्रश्नचतुष्टयप्रतिवचनमुक्तं, सम्प्रति पञ्चमं प्रश्नमधिकृत्याह - 'अजाणग' ति अज्ञा न तत्त्ववेदिन इत्युक्तं भवति, के ते ? - यज्ञवादिनो ये भवतः पात्रत्वेनाभिमताः, कासामित्याह - 'विजामाहणसंपय'त्ति सूत्रत्वात्सुयत्ययः 'विद्यात्राह्मणसम्पद' तत्र च विद्यते ज्ञायत आभिस्तत्त्वमिति विद्या- आरण्यक ब्रह्माण्डपुराणात्मिकास्ता एव ब्राह्मणसम्पदो विद्यात्राह्मणसम्पदः, तात्त्विकत्राह्मणानां हि निष्किञ्चनत्वेन विद्या एव सम्पदः, तद्वि
For Final P
निर्युक्तिः [४७०...]
~1050~
wwwjanbrary org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः