SearchBrowseAboutContactDonate
Page Preview
Page 1030
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||8-4|| दीप अनुक्रम [९३९ -९४३] उत्तराध्य. बृहद्वृत्तिः ॥५१५॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [२४], मूलं [-] / गाथा ||४-८|| निर्युक्तिः [४५९...] शुद्धा तां 'संयतः' यतिः 'इर्या' गतिं 'रिये 'ति रीयेत अनुष्ठानविषयतया प्राप्नुयात् यद्वा सुकयत्ययाचतुष्कारणपरिशुद्धया ईर्यया 'रीयेत' गच्छेत् । आलम्बनादीन्येव व्याख्यातुमाह- 'तत्र' तेप्यालम्बनादिषु मध्ये आलम्बनं यदालम्ब्य गमनमनुज्ञायते, निरालम्बनस्य हि नानुज्ञातमेव गमनं तत्किमित्याह - 'ज्ञानं' सूत्रार्थोभयात्मकागमरूपं 'दर्शनं' दर्शनप्रयोजनं ( शास्त्रं ) 'चरणं' चारित्रं, तथाशब्दोऽनुक्तसमुच्चयार्थः तेन द्वित्रादिभङ्गसूचकः, | ततोऽयमर्थः - प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगतो वा गमनमनुज्ञातम्, आलम्बनेनेति व्याख्यातं, कालेनेति व्याचष्टे - कालश्च प्रस्तावादीयया दिवस उक्तः, तीर्थकृदादिभिरिति गम्यते, रात्रौ यचक्षुर्विषयत्वेन पुष्टतराल - स्वनं विना नानुज्ञातमेव गमनं मार्गेणेति द्वारं व्याख्यातुमाह-मार्ग इह सामान्येन पन्थाः स उत्पथेन - उन्मा|र्गेण वर्जितो--रहित उत्पथवर्जित उक्त इति सम्बन्धः, उत्पथे हि त्रजत आत्मसंयमविराधनादयो दोषाः । यतनेति बुवूर्षुराह - 'दवतो' इत्यादि, सुगममेव, नवरं 'ताम्' इति चतुर्विधयतनां मे 'कीर्त्तयतः' सम्यकूखरूपाभिधानद्वारेण संशब्दयतः शृणु' आकर्णय शिष्येति गम्यते । यथाप्रतिज्ञातमेवाह - 'द्रव्यत' इति जीवादिकं द्रव्यमाश्रित्येयं यतना - यत् 'चक्षुषा' दृष्ट्या 'प्रेक्षेत' अवलोकयेत्, प्रक्रमाज्जीवादिकं द्रव्यम्, अवलोक्य च संयमात्मवि| राधनापरिहारेण गच्छेदिति भावः, 'युगमात्रं च' चतुर्हस्तप्रमाणं प्रस्तावात्क्षेत्रं प्रेक्षेत, इयं क्षेत्रतो यतना, कालतो यतना यावत् 'रीयिज'त्ति रीयते यावन्तं कालं पर्यदन्ति तावत्कालमानेति गम्यते, उपयुक्तश्च भावतो - दत्तावधानो यद्री Education intimatio Forest Use Only प्रवचनमात्राख्यम्. २४ ~ 1029~ ॥५१५॥ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy