________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||||
दीप
अनुक्रम
[?]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥
निर्युक्ति: [४८],
भाष्यं [-]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
-अहिंसासंयमतपोरूपों धर्मो मङ्गलमुत्कृष्टमित्येतद्वचः किमाशासिद्धमाहोस्वियुक्तिसिद्धमपि ?, अश्रोच्यते, उभयसिद्धं, कुतो ?, जिनवचनत्वात्, तस्य च विनेयसत्त्वापेक्षयाऽऽज्ञादिसिद्धत्वात्, आह च निर्युतिकारःजिणवणं सिद्धं चैव भण्णए कत्थई उदाहरणं । आसज्ज व सोयारं हेऊऽवि कर्हिचि भण्णेला ॥ ४९ ॥ व्याख्या - जिना: प्राग्निरूपितवरूपाः तेषां वचनं तदाज्ञया सिद्धमेव-सत्यमेव प्रतिष्ठितमेव अविचार्यमेवेत्यर्थः कुतः ?, जिनानां रागादिरहितत्वात्, रागादिमतश्च सत्यवचनासम्भवात् उक्तं च-- "रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ? ॥ १ ॥" इत्यादि, तथापि तधाविधश्रोत्रपेक्षया तत्रापि भण्यते कचिदुदाहरणम्, तथा आश्रित्य तु श्रोतारं हेतुरपि कचिद्भण्यते, न तु नियोगतः, तुशब्दः श्रोतृविशेषणार्थः, किंविशिष्टं श्रोतारम् ? - पटुधियं मध्यमधियं च न तु मन्दधियम् इति, तथाहि पटुधियो हेतुमात्रोपन्यासादेव प्रभूतार्थाय गतिर्भवति, मध्यमधीस्तु तेनैव बोध्यते, न वितर इत्यर्थः । तत्र साध्यसाधनान्वयव्यतिरेक प्रदर्शनमुदाहरणमुच्यते, दृष्टान्त इत्यर्थः, साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः, इह च हेतुमुल्लङ्घय प्रथममुदाहरणाभिधानं न्यायानुगतत्वात्सहलेनैव हेतोः साध्यार्थसाधकत्वोपपत्तेः कचिद्धेतुमनभिधाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थं वा, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धम्र्मास्तिकायः, चक्षुष्मतो ज्ञानस्य दीपवत्, उक्तं च- "जीवानां पुद्गलानां च, गत्युपष्टम्भकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपचक्षुष्मतो यथा ॥ १ ॥” तथा कचिद्धेतुरेव केवलोऽभिघी
Forte & Personal Use City
~68~
nbrary dig