________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं | चूलिका [-], मूलं [-] / गाथा ||H|| नियुक्ति: [३७१], भाष्यं [६३...]
(४२)
SENCE
प्रत सुत्रांक
||--||
वमेव व्यवस्थित, यत उक्तम्-"चेइअकुलगणसंघे आयरिआणं च पवयणसुए अ । सब्बेसुवि तेण कयं| तवसंजममुजमतेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः-"सुबहुंपि सुअमहीअं किं काही चरणविष्पमुफस्स? । अंधस्स जह पलित्ता
दीवसयसहस्सकोडीवि ॥१॥" दृशिक्रियायिकलस्वात्तस्येत्यभिप्रायः, एवं तावत्क्षायोपशमिकं चारित्रमड़ी६ कृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि
भगवतः समुत्पन्नकेवल ज्ञानस्यापि न तावन्मुत्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता हखपश्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंबररूपा चारित्रक्रिया नावाप्तेति, तस्मारिक्रयैव प्रधानमैहिकामुष्मिकफ-2 लप्राप्तिकारणमिति स्थितम् 'इति जो उवएसो सो णओ णामति इत्येवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूते चेच्छतीति गाथार्थः । उक्तः क्रियानया, इत्थं ज्ञानक्रियानयखरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह I-किमन्न तत्त्वम् ?, पक्षद्येऽपि युक्तिसंभवात् , आचार्यः पुनराह-"सवेसिपि नयाणं बहुविहवत्तव्वयं निसाकामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणहिओ साहू ॥१॥" अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना
स्थितपक्षमुपदर्शयन्नाह-'सब्वेसि गाहा' 'सर्वेषामपि' मूलनयानाम्, अपिशब्दात्तद्भेदानां च 'नयानां
दीप अनुक्रम [-]
Era
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~574~