________________
आगम
(४२)
प्रत
सूत्रांक
II--II
दीप
अनुक्रम [
दशवैका ० हारि-वृत्तिः
॥ २७० ॥
La docapan ini
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः)
चूलिका [१] . मूलं [-] / गाथा || II,
निर्युक्ति: [३६२],
भाष्यं [६२...]
वकं तु पुव्यभणिअं धम्मे रइकारगाणि वचाणि । जेणमिभीए तेणं रइवकेसा हवइ चूडा ॥ ३६३ ।।
वाक्यं तु पूर्वभणितं वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं 'धर्मे' चारित्ररूपे 'रतिकारकाणि' रतिजनकानि तानि च वाक्यानि येन कारणेन 'अस्यां' चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तृणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः । इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम् । आह चजह नाम आउरसिह सीवणछेज्जेसु कीरमाणेसु । जंतणमपत्थकुच्छा ऽऽमदोसविरई हिअकरी उ ।। ३६४ ॥
• यथा नामेति प्रसिद्धमेतत् 'आतुरस्य' शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य 'इह' लोके 'सीवनच्छेदेषु' सीवनच्छेदनकर्मसु क्रियमाणेषु सत्सु किमित्याह-यन्त्रणं गलयन्त्रादिना 'अपथ्यकुत्सा' अपथ्यप्रतिषेधः 'आमदोषविरतिः' अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाकसुन्दरत्वादिति गाथार्थः ॥ दाट|न्तिकयोजनामाह
अट्ठविकम्मरोगाउरस्स जीअस्स तह तिगिच्छाए। धम्मे रई अधम्मे अरई गुणकारिणी होइ ।। ३६५ ।। 'अष्टविधकर्मरोगातुरस्य' ज्ञानावरणीयादिरोगेण भावग्लानस्य 'जीवस्य' आत्मनः 'तथा' तेनैव प्रकारेण 'चिकित्सायां संयमरूपायां प्रक्रान्तायामस्लानलोचादिना पीडाभावेऽपि 'धर्म' श्रुतादिरूपे 'रतिः' आसक्तिः 'अधर्मे' तद्विपरीते 'अरतिः' अनासक्तिर्गुणकारिणी भवति, निर्वाणसाधकत्वेनेति गाथार्थः ॥ एतदेव स्पष्टयति
For P&Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४२ ], मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
~ 543~
१ रतिवा क्यचूला
॥ २७० ॥
wyg