________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति : [३४१], भाष्यं [६२...]
(४२)
दशवका
१० सभिश्वध्य
प्रत सूत्रांक ||७..||
भावभिक्षुर्द्विविधः-आगमतो नोआगमतश्च, तत्रागमत 'उपयुक्त' इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्तः, हारि-वृत्तिा 'तद्गुणसंवेदकस्तु' भिक्षुगुणसंवेदकः पुनर्नोआगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेपः । साम्प्रतं ॥२६॥ निरुक्तमभिधातुकाम आह-तस्य निरुक्त मिति तस्य' भिक्षोनिश्चितमुक्तमन्वर्थरूपं भेदकभेदनभेत्तव्यैरे-| सभिर्भदैर्वक्ष्यमाणैत्रिधा भवतीति गाथार्थः ॥ एतदेव स्पष्टयति
भेत्ताऽऽगमोवउत्तो दुविह तवो भेअणं च भेत्तव्यं । अट्ठविहं कम्मखुह तेण निरुत्तं स भिक्खुत्ति ।। ३४२ ॥ है 'भेत्ता'भेदकोऽत्रागमोपयुक्तः साधुः, तथा 'द्विविधं' बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा 'भेत्तव्यं
विदारणीयं चाष्टविध कर्म च-अष्टप्रकारं ज्ञानावरणीयादि कमें, तब क्षुदादिदुःखहेतुखात् क्षुच्छब्दवाच्य, हायतश्चैवं तेन निरुतं-यः शाखनीत्या तपसा कर्म भिनत्ति स भिक्षुरिति गाथार्थः ।। किं च
भिदंतो अजह खुह भिक्खू जयमाणओ जई होइ । संजमचरओ घरओ भवं खिवंतो भवंतो उ ।। ३४३ ॥ 'भिन्दंश्च विदारयंश्च यथा 'क्षुधं कर्म भिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषु स एव यतिर्भवति। इनान्यथा, एवं 'संयमचरकः' सप्तदशप्रकारसंयमानुष्टायी चरकः, एवं 'भवं' संसारं 'क्षपयन्' परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः ।। प्रकारान्तरेण निरुक्तमेवाह
जं भिक्खमत्तवित्ती तेण व भिक्खू खवेइ जं व अणं । नवसंजमे तवस्सित्ति वावि अनोऽवि पञ्जाओ ।। ३४४ ।। 'यद' यस्माद 'भिक्षामात्रवृत्तिः' भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समासः, तेन वा भिक्षु
दीप
अनुक्रम [४८४..]
GREH
॥२६१॥
Erami
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~ 525~