________________
आगम
(४२)
प्रत
सूत्रांक
॥६१
-६४||
दीप
अनुक्रम
[४११
-४१४]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [८], उद्देशक [-] मूलं [ १५...] / गाथा ||६१-६४ || निर्युक्ति: [ ३०८ ], भाष्यं [ ६२...]
दशवैका० हारि-वृत्तिः
।। २३८ ।।
Education
| स्थानं' प्रव्रज्यारूपम् 'उत्तमं प्रधानं प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतिततथा प्रवर्द्धमानामनुपालयेद्यत्नेन, क इत्याह-'गुणेषु' मूलगुणादिलक्षणेषु, 'आचार्यसंमतेषु' तीर्थकरादिवमतेषु, अन्ये तु श्रद्धाविशेषणमेतदिति व्याचक्षते, तामेव श्रद्धामनुपालयेद्गुणेषु, किंभूताम् ? - आचार्यसंमतां, न तु स्वाग्रहकलङ्कितामिति सूत्रार्थः ॥ ६१ ॥ आचारप्रणिधिफलमाह - 'तवं चिति सूत्रं तपश्चेदम्- अनशनादिरूपं साधुलोकप्रतीतं 'संयमयोगं च' पृथिव्यादिविषयं संयमव्यापारं च 'स्वाध्याययोगं च' वाचनादिव्यापारं 'सदा' सर्वकालम् 'अधिष्ठाता' तपःप्रभृतीनां कर्तेत्यर्थः इह च तपोऽभिधानात्तग्रहणेऽपि खाध्याययोगस्य प्राधान्यख्यापनार्थ भेदेनाभिधानमिति । 'स' एवंभूतः 'शूर इव' विक्रान्तभट इव 'सेनया' 'चतुरङ्गरूपया इन्द्रियकषायादिरूकृपया निरुद्धः सन् 'समाप्तायुधः' संपूर्णतपःप्रभृतिखगाद्यायुधः 'अलम्' अत्यर्थमात्मनो भवति संरक्षणाय अलं च परेषां निराकरणायेति सूत्रार्थः ॥ ६२ ॥ एतदेव स्पष्टयन्नाह - 'सज्झाय'त्ति सूत्रं, स्वाध्याय एव सद्ध्यानं स्वाद्ध्याय सद्ध्यानं तत्र रतस्य-सक्तस्य 'त्रातुः' खपरोभयत्राणशीलस्य 'अपापभावस्य' लब्ध्यायपेक्षारहिततथा शुद्धचित्तस्य 'तपसि' अनशनादौ यथाशक्ति रतस्य 'विशुद्धयते' अपैति यद् 'अस्य' साधोः 'मलं' कर्ममलं 'पुराकृतं' जन्मान्तरोपात्तं दृष्टान्तमाह-'समीरितं' प्रेरितं रूपयमलमिव 'ज्योतिषा' अग्निनेति सूत्रार्थः ॥ ६३ ॥ ततः - 'से तारिसे'त्ति सूत्रं, 'स तादृशः' अनन्तरोदितगुणयुक्तः साधुः 'दुःखसहः' परीषहजेता 'जितेन्द्रियः' पराजितश्रोत्रेन्द्रियादि: 'श्रुतेन युक्तो' विद्यावानित्यर्थः 'अममः' सर्वत्र ममत्वरहितः
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
~479~
८ आचारप्रणिध्यध्ययनम् २ उद्देशः
॥ २३८ ॥