________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||१७...|| नियुक्ति: [३००], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||५७..||
व्याख्या-यस्यापि कस्यचिद्व्यवहारतपखिनो दुष्प्रणिहिता-अनिरुद्धा भवन्ति 'कषायाः क्रोधादयः 'तप-18 भारतः तपः कुर्वत इत्यर्थः स बालतपखीव उपवासपारणकप्रभूततरारम्भको जीवो (यथा) गजनानपरिश्रमं । करोति, चतुर्थषष्ठादिनिमित्ताभिधानतः प्रभूतकर्मबन्धोपपत्तेरिति गाथार्थः ॥ अमुमेवार्थ स्पष्टतरमाह
सामन्नमणुचरंतस्स कसाया जस्स उक्कडा होति । मन्नामि उच्छुफुलं व निष्फलं तस्स सामन्नं ।। ३०१॥ व्याख्या-'श्रामण्यमनुचरतः' श्रमणभावमपि द्रव्यतः पालयत इत्यर्थः, कषाया यस्योत्कटा भवन्ति कोधादयः मन्ये इक्षुपुष्पमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्यमिति गाथार्थः ॥ उपसंहरन्नाह
एसो दुविहो पणिही सुद्धो जइ दोसु तस्स तेसिं च । एत्तो पसस्थमपसत्य लक्षणमहास्थनिष्फर्म ॥ ३०२॥ .. व्याख्या-एषः' अनन्तरोदितो 'द्विविधः प्रणिधिः' इन्द्रियनोइन्द्रियलक्षणः 'शुद्ध' इति निर्दोषो भवति, यदि 'यो' बाह्याभ्यन्तरचेष्टयोः 'तस्य' इन्द्रियकषायवतः तेषां च' इन्द्रियकरायाणां सम्यगयोगो भवति, एतदुक्तं भवति-यदि बाह्यचेष्टायामभ्यन्तरचेष्टायां च तस्य च प्रणिधिमत इन्द्रियाणां कषायाणां च निग्रहो भवति ततः शुद्धः प्रणिधिरितरथा वशुद्धः, एवमपि तत्वनीत्याऽभ्यन्तरैव चेष्टेह गरीयसीस्याह, अत एवमपि तत्वे प्रशस्तं चारु, तथाऽप्रशस्तमचारु लक्षणं प्रणिधेः 'अध्यात्मनिष्पन्नम् अध्यवसानोद्गतमिति गाथार्थः ॥ एतदेवाह
मायागारवसहिभो इंदिअनोइंदिपहिं अपसत्यो । धम्मस्था अ पसत्थो इंदिअनोइंदिअप्पणिही ।। ३०३ ॥
दीप अनुक्रम [३५०..]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~454~