________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति: [२७०], भाष्यं [६२...]
(४२)
प्रत सुत्रांक ||६८..||
व्याख्या-वाक्यं वचनं च गी. सरस्वती भारती च गौर्वाक भाषा प्रज्ञापनी देशनी च वाग्योगो योगश्च, भएतानि निगदसिद्धान्येवेति गाथार्थः ॥ पूर्वोद्दिष्टां द्रव्यादिभाषामाह
दल्वे तिविहा गहणे अ निसिरणे तह भवे पराघाए । भावे दव्वे अ सुए चरित्तमाराहणी चेव ।। २७१ ।। व्याख्या-'द्रव्य इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा-ग्रहणे च निसर्ग तथा भवेत्पराघाते । तत्र ग्रहणं भाषाद्रब्याणां काययोगेन यत् सा ग्रहणद्रव्यभाषा, निसर्गस्तेषामेव भाषाद्रव्याणां वाग्योगेनोत्स-८ गक्रिया, पराघातस्तु निसृष्टभाषाद्रब्यस्तदन्येषां तथापरिणामापादनक्रियावत्प्रेरणम्, एषा त्रिप्रकाराऽपि क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यभाषेति । 'भाव' इति द्वारपरामर्शः, भावभाषा त्रिविधैव, द्रव्ये च श्रुते चारित्र इति, द्रव्यभावभाषा श्रुतभावभाषा चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्तैर्या भाष्यते सा द्रव्यभावभाषा, एवं श्रुतादिष्वपि वाच्यम्, इयं त्रिप्रकारापि वभिप्रायात्तद्रव्यभावप्राधान्यापेक्षया भावभाषा, इयं चौघत एवाराधनी चैवेति, द्रव्याचाराधनात्, चशब्दाद्विराधना चोभयं चानुभयं च भवति, द्रव्याद्याराधनादिभ्य इति । आह-इह द्रव्यभाववाक्यखरूपमभिधातव्यं, तस्य प्रस्तुतखात्, तत्किमनया भाषयेति, उच्यते, वाक्यपर्यायत्वाद्भाषाया न दोषः, तत्त्वतस्तस्यैवाभिधानादिति गाथासमुदायार्थः, अवयवार्थ तु वक्ष्यति । तत्र द्रव्यभावभाषामधिकृत्याराधन्यादिभेदयोजनामाह
आराहणी उ दवे सचा मोसा विराहणी होइ । सचामोसा मीसा असचमोसा य पडिसेहा ॥ २७२ ॥
SACCASEXCOMSANSAR
दीप
अनुक्रम [२९३..]
44-45-455
मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
द्रव्यभाषाया: अर्थ एवं भेदा:
~418~