________________
आगम
(४२)
प्रत
सूत्रांक
||३१
-३५||
दीप
अनुक्रम
[२०६
-२१०]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा ||३१-३५ || निर्युक्तिः [ २४४...], भाष्यं [६२...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
दशवैका ० हारि-वृत्तिः
॥ १८७ ॥
| सन् क्षुद्रभोजने 'बहु' प्रभूतं पापं करोति, मायया दारिद्रं कर्मेत्यर्थः अयं परलोकदोषः, इहलोकदोषमाह'दुस्तोषश्च भवति' येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न शक्यते, अत एव 'निर्वाणं च न गच्छति इहलोक एव धृतिं न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्रार्थः ॥ ३२ ॥ एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यते- 'सिअत्ति सूत्रं, स्यादेको लब्ध्वेति पूर्ववत्, 'विविधम्' अनेकप्रकारं पानभोजनं भिक्षाचर्यागत एव 'भद्रकं भद्रकं' घृतपूर्णादि भुक्त्वा 'विवर्ण' विगतवर्णमाम्लखलादि 'विरसं' विगतरसं शीतोदनादि 'आहरेद्' आनयेदिति सूत्रार्थः ॥ ३३ ॥ स किमर्थमेवं कुर्यादित्यत आह- 'जाणंतु 'त्ति सूत्रं, जानन्तु तावन्मां 'श्रमणाः' शेषसाधवो यथा 'आयतार्थी' मोक्षार्थी अयं 'मुनिः' साधुः 'संतुष्टो' लाभालाभयोः समः सेवते 'प्रान्तम्' असारं 'रूक्षवृत्तिः' संयमवृत्तिः' 'सुतोष्यः' येन केनचित्सोषं नीयत इति सूत्रार्थः ॥ ३४ ॥ एतदपि किमर्थमेवं कुर्यात्तत्राह - 'पूअण त्ति सूत्रं, 'पूजार्थम्' एवं कुर्वतः खपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति 'यशस्कामी' अहो अयमिति प्रवादार्थं वा, तथा मानसन्मानकाम एवं कुर्यात्, तत्र वन्दनाभ्युत्थानलाभनिमित्तो मानः- वस्त्रपात्रादिलाभनिमित्तः सन्मानः स चैवंभूतः 'बहु' अतिप्रचुरं प्रधानसंक्लेशयोगात् 'प्रसूते' निर्वर्त्तयति पापं तद्गुरुत्वादेव सम्यगनालोचयन् 'मायाशल्यं च' भावशल्यं च करोतीति सूत्रार्थः ॥ ३५ ॥
Forte & Personal Use City
~377~
५ पिण्डैपणाध्य०
२ उद्देशः
॥ १८७ ॥
brary dig