________________
आगम
(४२)
प्रत
सूत्रांक
॥४-१३||
दीप
अनुक्रम
[१७९
-१८८]
Jan Education
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [२],
मुनि दीपरत्नसागरेण संकलित
मूलं [ १५...] / गाथा ||४- १३ || निर्युक्तिः [ २४४...], भाष्यं [ ६२...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
अपितु तप इत्यधिसहेत, अनशनन्यूनोदरतालक्षणं तपो भविष्यतीति सम्यग्विचिन्तयेदिति सूत्रार्थः ॥ ६ ॥ उक्ता कालयतना, अधुना क्षेत्रयतनामाह- 'तहेब'त्ति, तथैव 'उच्चावचाः' शोभनाशोभनभेदेन नानाप्रकाराः प्राणिनो भक्तार्थ समागता बलिप्राभृतिकादिष्वागता भवन्ति, 'तदृजुक' तेषामभिमुखं न गच्छेत्, तत्संत्रासनेनान्तरायाधिकरणादिदोषात्, किंतु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति सूत्रार्थः ॥ ७॥ किं च 'गोअरग्गत्ति सूत्र, गोचराग्रप्रविष्टस्तु भिक्षार्थी प्रविष्ट इत्यर्थः 'न निषीदेत्' नोपविशेत् 'कचिद्' गृहदेवकुलादौ, संयमोपघातादिप्रसङ्गात्, 'कथां च' धर्मकथादिरूपां 'न प्रबभीयात्' प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाह-स्थित्वा कालपरिग्रहेण संयत इति, अनेषणाद्वेषादिदोषप्रसंगादिति सूत्रार्थः ॥ ८ ॥ उक्ता क्षेत्रयतना, द्रव्ययतनामाह — 'अग्गलं'ति सूत्रं, 'अर्गल' गोपुरकपाटादिसंबन्धिनं 'परिघं नगरद्वारादिसंबन्धिनं 'द्वारं' शाखामयं 'कपाटं' द्वारयत्रं वाऽपि संयतः अवलम्ब्य न तिष्ठेत्, लाघवविराधनादोषात्, 'गोचराग्रगतो' भिक्षाप्रविष्टः, मुनिः संयत इति पर्यायौ तदुपदेशाधिकाराददुष्टावेवेति सूत्रार्थः ॥ ९ ॥ उक्ता द्रव्ययतना, भावयतनामाह - 'समणं'ति सूत्रं, 'श्रमणं' निर्ग्रन्थादिरूपं, 'ब्राह्मणं' धिग्वर्ण वापि 'कृपणं वा' पिण्डोलकं 'वनीपक' पञ्चानां वनीपका) नामप्यन्यतमम् 'उपसंक्रामन्तः सामीप्येन गच्छन्तं गतं वा भ कार्य पानार्थ वा 'संयतः साधुरिति सूत्रार्थः ॥ १० ॥ 'त'मिति सूत्रं 'त' श्रमणादिम् 'अतिक्रम्य' उल्लय न प्रविशेत्, दीयमाने च समुद्राने तेभ्यो न तिष्ठेच्चक्षुगोचरे । कस्तत्र विधिरित्याह-एकान्तमवक्रम्य तत्र ति
Forane & Personal Use City
~ 370~
brary dig