________________
आगम
(४२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः)
अध्ययनं [-],
भाष्यं [-]
उद्देशक [-]
मूलं [-],
निर्युक्ति: [३३],
मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
वति भावायः, आयो लाभ इति निर्दिष्टः, अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः ॥ अधुना क्षपणा, साऽपि भावत इदमेवेति, आह च- 'अष्टविधम्' अष्टप्रकारं कर्मरजः, तत्र जीवगुण्डनपरत्वात्कर्मैय रजः कर्मरज: 'पुराण' प्रागुपात्तं 'यत्' यस्मात्क्षपयति 'योगैः' अन्तःकरणादिभिरध्ययनं कुर्वन् तस्मादिदमेव कारणे कार्योपचारात् क्षपणेति । तथा चाह-इदं भावाध्ययनं 'नेतव्यं' योजनीयम् 'आनुपूर्व्या' परिपाठ्या | अध्ययनाक्षीणादिष्विति गाथार्थः । उक्त ओघनिष्पन्नो निक्षेपः, साम्प्रतं नामनिष्पन्न उच्यते तन्त्रौघनिष्पनेऽध्ययनं नामनिष्पले द्रुमपुष्पिकेति आह-द्रुम इति कः शब्दार्थः ?, उच्यते, “दु द्रु गती" इत्यस्य दुरस्मिन् देशे विद्यत इति तदस्यास्त्यस्मिन्निति ( पा० ५-२-९४) मतुपि प्राप्ते "दुदुभ्यां म" (पा० ५-२- १०८ ) इति | मप्रत्ययान्तस्य द्रुम इति भवति । साम्प्रतं द्रुमपुष्पनिक्षेपप्ररूपणायाह
णामदुमो ठवणदुमो दव्वदुमो चेव होइ भावदुमो । एमेव य पुष्फरस वि चउव्विहो होइ निक्खेवो ॥ ३४ ॥
व्याख्या- 'नामद्रुमो' यस्य द्रुम इति नाम द्रुमाभिधानं वा, स्थापनाद्रुमो द्रुम इति स्थापना, 'द्रव्यद्रुमञ्चैव भवति भावद्रुमः' तत्र द्रव्यद्रुमो द्विधा-आगमतो नोआगमतच, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीर भव्यशरीरो भयव्यतिरिक्तस्त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च तत्रैकभविको नाम य एकेन भवेनानन्तरं द्रुमेषूत्पत्स्यते, बद्धायुष्कस्तु येन दुर्मनामगोत्रे कर्मणी बद्धे इति, अभिमुखनाम१ आयुर्विशिष्टे इति ज्ञेयम् तथा च न बढायुष्कताऽसंगतिः.
अत्र प्रथम अध्ययनस्य परिचय-निर्युक्तिः आरब्धाः
'द्रुम' शब्दस्य नामादि निक्षेपा::
Forse & Personal Use City
~36~
brary dig