________________
आगम
(४२)
प्रत
सूत्रांक
||३०
-३४||
दीप
अनुक्रम
[१०५
-१०९]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [१], मूलं [ १५...] / गाथा ||३०-३४|| निर्युक्तिः [ २४४ ...], भाष्यं [६२...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
Ja Education in
'पानभोजनम्' ओदनारनालादि तदित्थंभूतां ददतीं 'प्रत्याचक्षीत' निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः ||३१|| 'पुरेकम्मे 'न्ति सूत्रं पुरःकर्मणा हस्तेन- साधुनिमित्तं प्राकृतजलोज्झनव्यापारेण, तथा 'दया' डोवसदृशया 'भाजनेन वा' कांस्य भाजनादिना ददतीं 'प्रत्याचक्षीत' प्रतिषेधयेत्, न मम क ल्पते तादृशमिति पूर्ववदेवेति सूत्रार्थः ॥ ३२ ॥ एवं'ति सूत्रम्, 'एवम्' उदकार्येण 'हस्तेन' करेण, उदकाद्र नाम गलदुदकविन्दुयुक्तः, एवं सस्निग्धेन हस्तेन सस्निग्धो नाम ईषदुदकयुक्तः, एवं 'सरजस्केन हस्तेन सरजस्को नाम-पृथिवीरजोगुण्डितः, एवं 'मृद्धतेन हस्तेन' मृतो नाम-कर्दमयुक्तः, एवमूषादिष्वपि योजनीयम्, एतावन्ति एव एतानि सूत्राणि, नवरमूष:-पांशुक्षारः, हरितालहिङ्गुलकमनःशिलाः- पार्थिवा वर्णकभेदाः, अञ्जनं- रसाञ्जनादि लवणं- सामुद्रादि ॥ ३३ ॥ तथा 'गेरुअ'त्ति सूत्रं, गैरिका - धातुः, वर्णिकापीतमृत्तिका, श्वेतिका-शुक्लमृत्तिका, सौराष्ट्रका तुवरिका, पिष्टम्-आमतण्डुलक्षोदः, कुकुसाः प्रतीताः, 'कृतेनेति' एभिः कृतेन, हस्तेनेति गम्यते, तथोत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालावुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिञ्चिणिकादिपत्रसमुदायो वा उदूखलकण्डित इति, तथा असंसृष्टोव्यञ्जनादिना अलिप्तः, संसृष्टश्चैव व्यञ्जनादिलिप्सो बोद्धव्यो हस्त इति, विधिं पुनरत्रोद्धुं वक्ष्यति स्वयमेवेति सूत्रार्थः ॥ ३४ ॥
असंसण हत्थेण, दव्वीए भायणेण वा । दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं
For ane & Personal Use City
~342~
brary dig