________________
आगम
(४२)
प्रत
सूत्रांक
||१-९||
दीप
अनुक्रम [४७-५५]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः)
अध्ययनं [४], उद्देशक [ - ], मूलं [ १५...] / गाथा ||१-९ || निर्युक्ति: [ २३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
दश० २७
नासमाहितो हस्तपादादि विक्षिपन् शेषं पूर्ववत् ॥ २ ॥ एवमयतमासीनो निषण्णतया अनुपयुक्त आकुञ्चनादिभावेन, शेषं पूर्ववत् ॥ ३ ॥ एवमयतं खपन्-असमाहितो दिवा प्रकामशय्यादिना (वा), शेषं पूर्ववत् ||४|| एवमयतं भुञ्जानो - निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना (बा), शेषं पूर्ववत् ||५|| एवमयतं भाषमाणोगृहस्थभाषया निष्ठुरमन्तर भाषादिना (चा), शेषं पूर्ववत् ॥६॥ अत्राह-यद्येवं पापकर्मबन्धस्ततः 'कहं चरे' इत्यादि, 'कथं केन प्रकारेण चरेत् कथं तिष्ठेत् कथमासीत, कथं खपेत्, कथं भुञ्जानो भाषमाणः पापं कर्म न बना तीति ? ॥ ७ ॥ आचार्य आह- 'जयं चरे' इत्यादि, यतं चरेत् सूत्रोपदेशेनेर्यासमितः, यतं तिष्ठेत् समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत उपयुक्त आकुञ्चनाद्यकरणेन, यतं खपेत् समाहितो रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञ्जानः- सप्रयोजनमप्रणीतं प्रतरसिंह भक्षितादिना एवं यतं भाषमाणः - साधुभाषया मृदु कालप्राप्तं च 'पापं कर्म' क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि 'न बनाति' नादत्ते, निराश्रवत्वात् विहितानुष्ठानपरत्वादिति ॥ ८ ॥ किंच- 'सव्वभूय' इत्यादि, सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतो, य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, तस्यैवं सम्यग वीतरागोक्तेन विधिना भूतानि पृथिव्यादीनि पश्यतः सतः 'पिहि ताश्रवस्य' स्थगितप्राणातिपाताद्याश्रवस्य 'दान्तस्य' इन्द्रियनोइन्द्रियदमेन 'पापं कर्म न बध्यते' तस्य पापकर्म
[१] प्रतिक्रमणं कृत्वा खाध्यायः ततः शयनं वि. प.
For ane & Personal Use City
~ 316~
by dig