________________
आगम
(४२)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम [४१]
Ja Education in
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [४], उद्देशक [ - ], मूलं [१०] / गाथा ||१५...|| निर्युक्तिः [२३२...], भाष्यं [६०...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
मि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि १ ॥ ( सू० १० )
'से' इति निर्देशे स योऽसौ महाव्रतयुक्तो, भिक्षुर्वा भिक्षुकी वा आरम्भपरित्यागाद्धर्मकायपालनाय भिक्षणशीलो भिक्षु, एवं भिक्षुक्यपि, पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीति, आह-'संयतविरत प्रतिहतप्रत्याख्यातपापकर्मा तत्र सामस्त्येन यतः संयतः - सप्तदशप्रकारसंयमोपेतः, विविधम्- अनेकधा द्वादशविधे तपसि रतो विरतः, प्रतिहृतप्रत्याख्यातपापकर्मेति प्रतिहतंस्थितिहासतो ग्रन्थिभेदेन प्रत्याख्यातं हेत्वभावतः पुनर्वृद्ध्यभावेन पापं कर्म- ज्ञानावरणीयादि येन स तथाविधः, 'दिवा वा रात्रौ वा एको वा परिषद्वतो वा सुसो वा जाग्रद्वा' रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एक:, शेषकालं परिषङ्गतः, इदं च वक्ष्यमाणं न कुर्यात् । 'से पुढविं या' इत्यादि, तद्यथा- पृथिवीं या भित्तिं वा शिलां वा लोष्टं वा, तत्र पृथिवी- लोष्टादिरहिता भित्तिः-नदीतटी शिला-विशालः पाषाणः लोष्ट:-प्रसिद्ध:, तथा सह रजसा-आरण्यपांशुलक्षणेन वर्तत इति सरजस्कस्तं सरजस्कं वा 'कायम्' कायमिति देहं तथा सरजस्कं वा वस्त्रं- चोलपद्दकादि 'एकग्रहणे सज्जातीयग्रहणमिति पात्रादिपरिग्रहः, एतत् किमित्याहहस्तेन वा पादेन वा काष्ठेन वा कलिञ्जेन वा शुद्रकाष्ठरूपेण अङ्गुल्या वा शलाकया वा-अयःशलाकादिरु
Forane & Personal Use City
~306~
brary dig