________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-1, मूलं [१] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत सूत्रांक
[१]
दीप
विज्ञानाभावात्, नैतदेवं, हेतुसंज्ञाया अवगतः, बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रति तेषामभिक्रमणादिभावात्, न चैवं बल्ल्यादीनामभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति कृतं प्रसङ्गेन । अधिकृतनसभेदानाह-'जे य' इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, 'एकग्रहणे तजातीयग्रहण मिति द्वीन्द्रियाः। शङ्खादयोऽपि गृह्यन्ते, पतङ्गाः-शलभा, अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृयन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन ब्रीन्द्रियाः सर्व एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रिया:-कृम्यादयः सर्वे जीन्द्रियाःकुन्ध्वादयः, सर्वे चतुरिन्द्रिया-पतङ्गादयः । आह-ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थम् ?, उच्यते, 'विचित्रा सूत्रगतिरतन्नः क्रम इति ज्ञापनार्थम् , सर्वे पश्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो-गवादयः, सर्वे नारका-रत्नप्रभानारकादिभेदभिन्नाः, सर्वे मनुजा:-कर्मभूमिजादयः, सर्वे देवा-भवनवास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एवैते बसाः न वेकेन्द्रिया इव प्रसाः स्थावराश्चेति, उक्तं च-"पृथिव्यम्बुवनस्पतयः स्थावराः" "तेजोवायू द्वीन्द्रियादयश्च त्रसाः" (तत्त्वा० अ० २ सू०१३-१४) इति । 'सर्वे प्राणिनः परमधर्माण' इति सर्व एते प्राणिनो-दीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इति-अत्र परमं-मुखं तद्धर्माणः सुखधर्माण:-सुखाभिलाषिण इत्यर्थः, यतश्चैवमित्यतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेतेति योगः। षष्ठं जीवनिकायं निगमयन्नाह-एष खलु-अनन्तरोदितः कीटादिः 'षष्ठो जीवनिकायो' पृथिव्यादिपश्चकापेक्षया षष्ठत्वमस्य, त्रसकाय
अनुक्रम [३२]
~286~