________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२९...], भाष्यं [१७...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत सूत्रांक
[१]
दीप
आत्मनोऽध्येतुम्, 'अध्येतु मिति पठितुं श्रोतुं भावयितुं, कुत इत्याह-'अध्ययनं धर्मप्रशसिः निमि
सकारणहेतुषु सर्वासां प्रायो दर्शन मिति वचनात् हेती प्रथमा, अध्ययनवादू-अध्यात्मानयनाचेतसो ताविशुद्ध्यापादनादित्यर्थः, एतदेव कुत इस्याह-'धर्मप्रज्ञप्ते' प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रशसिः
ततो धर्मप्रज्ञप्तेः कारणाञ्चेतसो विशुद्ध्यापादनं चेतसो विशुद्ध्यापादनाच श्रेय आत्मनोऽध्येतुमिति । अन्ये तु व्याचक्षते-अध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतयाऽनुवादमात्रमेतदिति ॥ शिष्यः पृछति-कतरा खल्वि'त्यादि, सूत्रमुक्तार्थमेव, अनेनैतदर्शयति-विहायाभिमान संविग्नेन शिध्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति, आचार्य आह-इमा खस्वि'त्यादि सूत्रमुक्तार्थमेव, अनेनाप्येतदर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति । 'तंजहा-पुढविकाइया' इत्यादि, अन्न तद्यथेत्युदाहरणोपन्यासार्थः, पृथिवी-काठिन्यादिलक्षणा प्रतीता सैव काय:-शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एवं पृथिवीकायिकाः, स्वार्थिकष्ठक, आपो-द्रवाः प्रतीता एव ता एव काय:-शरीरं येषां तेऽप्कायाः अप्काया एष अप्कायिकाः। तेज-उष्णलक्षणं प्रतीतं तदेव काय:-शरीरं येषां ते तेजाकायाः तेजाकाया एव तेजाकायिकाः। वायु:-चलनधर्मा प्रतीत एव स एव काय:-शरीरं येषां ते वायुकायाः वायुकाया एव वायुकायिकाः । वनस्पति:-लतादिरूपः प्रतीतः, स एव काय:-शरीरं येषां ते वनस्पतिकायाः, वनस्पतिकाया एवं
१ विभक्तीना.
अनुक्रम
[३२]
JaEkannal
~ 278~