________________
आगम
(४२)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[३२]
दशवैका ० हारि-वृत्तिः
॥ १३७ ॥
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [४], उद्देशक [ - ], मूलं [१] / गाथा ||१५..|| निर्युक्ति: [२२९...], भाष्यं [५७...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
१ षड्जीव
निकाध्य०
आवकहाए गुरुकुलवासं न मुंचति ॥ १ ॥" अथवा 'आमुसंतेणं' आमृशता भगवत्पादारविन्दयुगलमुत्तमाट्रेन, अनेन च विनयप्रतिप सेर्गरीयस्त्वमाह, विनयस्य मोक्षमूलत्वात् उक्तं च- "मूलं संसारस्सा होंति कसाया अणतपत्तस्स । विणओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स ॥ १ ॥” कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः जीवस्वरूपं -तत्र इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तम्, अत्राह एषा षड्जीवनिकायिका केन प्रवेदिता प्ररूपिता वेति ?, अन्नोच्यते, तेनैव भगवता, यत आह- 'समणेणं भगवया महावीरेण कासवेणं पवेइया सुअक्खाया सुपन्नत्ते'ति, सा च तेन 'श्रमणेन' महातपखिना 'भगवता' समग्रैश्वर्यादियुक्तेन 'महावीरेण ' 'शूर वीर विक्रान्ताविति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, उतं च - "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्त, तस्माद्वीर इति स्मृतः ॥ १ ॥” महांश्चासौ वीरच महावीरः तेन महावीरेण, 'काश्यपेने ति काश्यपसगोत्रेण, 'प्रवेदिता' नान्यतः कुतश्चिदाकर्ण्य ज्ञाता किं तर्हि ?, स्वयमेव केवलालोकेन प्रकर्षेण वेदिता प्रवेदिता-विज्ञातेत्यर्थः तथा 'खाख्यातेति सदेवमनुष्यासुरायां पर्षदि सुष्ठु आख्याता वाख्याता, तथा 'सुप्रज्ञसेति सुष्ठु प्रज्ञप्ता यथैवाख्याता तथैव सुष्ठु सूक्ष्मपरिहारासेवनेन प्रकर्षेण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः, तां चैवंभूतां षड्जीवनिकायिकां 'श्रेयो मेध्येतुं' श्रेयः पथ्यं हितं ममेत्यात्मंनिर्देशः, छान्दसत्वात्सामान्येन ममेत्यात्मनिर्देश इत्यन्ये, ततश्च श्रेय
१ मूल संसारस्य भवन्ति कषाया अनन्तपत्रस्य विनयः स्थानप्रयुक्तो दुःखविमुक्तस्य मोक्षस्य ॥ १ ॥ २ आत्मार्थः
For ane & Personal Use Oly
~277~
॥ १३७ ॥