________________
आगम
(४२)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[३२]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [४], उद्देशक [ - ], मूलं [१] / गाथा ||१५...|| निर्युक्तिः [२२२...], भाष्यं [७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
जीवत्यासंसारं प्राणान् धारयति, अतो जीवनाज्जीव इति, तस्यैवौघायुष्ककर्मणो 'निर्जरया' क्षयेण, मृत इति, सर्वथा जीवनाभावात्, स च सिद्धो मृतो, नान्यः, विग्रहगतावपि तथाजीवनसद्भावात्, 'नयमतेने' ति सर्वनयमतेनैव मृत इति गांधार्थः । उक्त ओघजीवितविशिष्ट ओघजीवः, साम्प्रतं भवजीवं तद्भवजीवं चाह— जेण य धरइ भवगओ जीवो जेण य भवाउ संकनई। जाणाहि तं भवाउं चउब्विहं तव्भवे दुविहं ॥ ८ ॥ भाष्यम् || निक्लेवोत्ति गयं ॥ व्याख्या- 'येन चं' नारकायायुष्केण 'प्रियते' तिष्ठति 'भवगतो' नारकादिभवस्थितो जीवः, तथा 'येन च' मनुष्यायायुष्केण 'भवात्' नारकादिलक्षणात् 'संक्रामति' याति, मनुष्यादिभवान्तरमिति सामर्थ्याद्गम्यते, 'जानीहि' विद्धि, तदित्थंभूतं 'भवायु' भवजीवितं चतुर्विधं नारकतिर्यमनुष्यामरभेदेन, तथा 'तद्भवे' तद्भवविषयम्, आयुरिति वर्तते तच द्विविधं तिर्यकतद्भवायुर्मनुष्यतद्भवायुश्च यस्मात्तावेव सृती सन्तौ भूयस्तस्मिन्नेव भव उत्पद्येते, नान्ये, तद्भवजीवितं च तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यत इति । अत्रापि च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव एव ग्राह्यः जीवितं तु तद्विशेषणत्वादुक्तमिति गाथार्थः ॥ उक्तो निक्षेपः, इदानीं प्ररूपणामाह-
दुविधा यहुंति जीवा सुहुमा तह बायरा य लोगम्मि | सुडुमा य सव्वलोए दो चेत्र य बायरविहाणे ॥ ९ ॥ भाष्यम् ॥ १ अत्र 'जीवत्यनेनेति जीव ओषेन सामान्येन जीव ओमजीवितविशिष्ठ जीवः, मध्यमपदोत्तरपदलोपाद इथं भवति' इत्यधिकं केषुचिदादर्शेषु.
For ane & Personal Use City
~246~
brary dig