________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११...|| नियुक्ति: [१८०], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक
RE
||११..||
दीप अनुक्रम [१६..]
क्षेपमाह-प्रतीत्य यत् क्षुल्लकमुपदिष्टं तेनात्राधिकारः, यतो महती खल्वाचारकथा धर्मार्थकामाध्ययनं तदपेक्षया क्षुल्लिकेयमिति ॥ आचारस्य तु चतुष्को निक्षेपः, स चायम्-नामाचारः स्थापनाचारो द्रव्याचारो भावाचारश्च योद्धव्य इति गाथाक्षरार्थः ॥भावार्थ तु वक्ष्यति, तत्र नामस्थापने क्षुण्णे, अतो द्रव्याचारमाह-नामनधा
वनवासनशिक्षापनसुकरणाविरोधीनि द्रव्याणि यानि लोके तानि द्रव्याचारं विजानीहि । अयमत्र भावार्थः BI-आचरणं आचार: द्रब्यस्याचारो द्रव्याचार, द्रव्यस्य यदाचरणं तेन तेन प्रकारेण परिणमनमित्यर्थः, तत्र
नामनमवनतिकरणमुच्यते, तत्पति द्विविधं द्रव्यं भवति-आचारवदनाचारवच, तत्परिणामयुक्तमयुक्तं चेत्यर्थः, तत्र तिनिशलतादि आचारवत्, एरण्डायनाचारवत्, एतदुक्तं भवति-तिनिशलताचाचरति तंग भावं-तेन रूपेण परिणमति न त्वेरण्डादि, एवं सर्वत्र भावना कार्या, नवरमुदाहरणानि प्रदयन्ते-धावनं प्रति हरिद्रारक्तं वस्नमाचारवत् सुखेन प्रक्षालनात्, कृमिरागरक्तमनाचारवत् तदस्मनोऽपि रागानपगमात्, वासनं प्रति कवेलुकायाचारवत् सुखेन पाटलाकुसुमादिभिर्वास्यमानखात्, वैडूर्योयनाचारवत् अशक्यत्वात्, शिक्षणं प्रत्याचारवच्छुकसारिकादि सुखेन मानुषभाषासम्पादनात्, अनाचारवच्छकुन्तादि तदनुपपत्तेः, सुकरणं प्रत्याचारवत् सुवर्णादि सुखेन तस्य तस्य कटकादेः करणात्, अनाचारवत् घण्टालोहादि तनान्यस्य तथाविधस्य कर्तुमशक्यत्वादिति, अविरोधं प्रत्याचारवन्ति गुडध्यादीनि रसोत्कर्षादुपभोगगुणाच, अनाचारवन्ति तैलक्षीरादीनि विपर्ययादिति, एवम्भूतानि द्रव्याणि यानि लोके तान्येव तस्याचारस्य तद्र
~ 204~