________________
आगम (४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
सप्त एते अनन्तरोक्ता एकका भवन्ति, इह च किल यस्माद्दश पर्याया-अध्ययनविशेषाः सङ्गीककेन संगृ-17 हीतास्तस्मात्तेनाधिकारः, अन्ये तु व्याचक्षते-यतः किल श्रुतज्ञानं क्षायोपशमिके भावे वर्तते तस्माद्भावैककेनाधिकार इति गाथार्थः । इदानीं यादीन् विहाय दशशब्दस्यैव निक्षेपं प्रतिपादयन्नाह
णाम ठपणा दविए खित्ते काले तहेव भावे अ । एसो खलु निक्खेचो दसगस्स उ छविहो होइ ॥९॥ द्रा व्याख्या-आह-किमिति यादीन विहाय दशशब्दः उपन्यस्तः, उच्यते, एतत्प्रतिपादनादेव यादीनां । लगम्यमानत्वात्, तत्र नामस्थापने सुगमे, द्रव्यदशकं दश द्रव्याणि सचित्ताचित्तमिश्राणि मनुष्यरूपककट
कादिविभूषितानीति, क्षेत्रदशकं दश क्षेत्रप्रदेशा, कालदशकं दश काला, वर्सनादिरूपत्वात्कालस्य दशाविस्थाविशेषा इत्यर्थः वक्ष्यति च-बाला किडा मंदे' त्यादिना, भावदशकं दश भावाः, तेच सान्निपातिक
भावे खरूपतो भावनीयाः, अथ चैत (वैत) एव विवक्षया दशाध्ययनविशेषा इति, 'एष एवंभूतः खलु 'निक्षेपों' न्यासो दशशब्दस्य बहुवचनान्तत्वाद्दशानां षड़िधो भवति, तन्त्र खलुशब्दोऽवधारणार्थः, एष एव प्रक्रान्तोपयोगीति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-नायं दशशब्दमात्रस्य, किन्तु तद्वाच्यस्यायंस्था-1 पीति गाथार्थः ॥ साम्प्रतं प्रस्तुतोपयोगित्वाकालस्य कालदशकद्वारे विशेषार्थप्रतिपिपादयिषयेदमाह
___ बाला किडा मंदा बला य पन्ना व हायणि पवंचा । पन्भार मम्मुही सायणी य दसमा उ कालदसा ॥ १०॥ व्याख्या-बाला क्रीडा च मन्दा च वला (च) प्रज्ञा च हायिनी ईषत्प्रपञ्चा प्रारभारा मृन्मुखी शायिनी
दश आदि शब्दस्य निक्षेपा: प्रदर्श्यते
~ 18~