________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||१|| नियुक्ति: [१६३], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
इच्छा पसत्यमपसत्थिगा व मयणमि वेवउवओगो । तेणहिगारो तस्स उ अयंति धीरा निरुत्तमिणं ।। १६३ ॥ व्याख्या-इच्छा प्रशस्ता अप्रशस्ता च, अनुस्वारोऽलाक्षणिकः सुखमुखोचारणार्थः, तत्र प्रशस्ता धर्मेच्छा मोक्षेच्छा, अप्रशस्ता युद्धेच्छा राज्येच्छा, उक्ता इच्छाकामाः, मदनकामानाह-'मदने' इति उपलक्षणार्थत्वान्मदनकामे निरूप्ये कोऽसावित्यत आह-वेदोपयोगः' वेद्यत इति वेदः-स्त्रीवेदादिस्तदुपयोगः-तद्विपाकानुभवनम् , तद्धापार इत्यन्ये, यथा स्त्रीवेदोदयेन पुरुषं प्रार्थयत इत्यादि, 'तेनाधिकार' इति मदनकामेन, |शेषा उच्चारितसदृशा इति प्ररूपिता, 'तस्य तु' मदनकामस्य वदन्ति 'धीराः' तीर्थकरगणधरा निरुक्तम् , 'इदं वक्ष्यमाणलक्षणमिति गाथार्थः ॥१६३ ॥
विसबमुहेसु पसत्तं अबुहजणं कामरागपडिबद्धं । उक्कामयंति जीवं धम्माओ तेण ते कामा ॥ १६४ ॥ व्याख्या-विषीदन्ति-अवबध्यन्ते एतेषु प्राणिन इति विषयाः-शब्दादयः तेभ्यः सुखानि तेषु प्रसक्ताआसक्तस्तं, जीवमिति योगः, स एव विशेष्यते-अबुधः-अविपश्चिजना-परिजनो यस्य सः अबुधजनस्तम्, अकल्याणमित्रपरिजनमित्यर्थः, अनेन बाचं विषयसुखप्रसक्तिहेतुमाह, कामरागप्रतिवद्ध'मिति कामा-15 मदनकामास्तेभ्यो रागा-विषयाभिष्वङ्गास्तैः प्रतिबद्धो-व्यासस्तम्, अनेन त्वान्तरं विषयसुखप्रसक्तिहेतुमाह, ततश्चाबुधजनत्वात्कामरागप्रतिबद्धत्वाच विषयसुखेषु प्रसक्तमिति भावः, किम् ?-निरुक्तवैचित्र्यादाहतत्प्रत्यनीकत्वादुत्क्रामयन्ति-अपनयन्ति जीवमनन्तरविशेषितम्, कुतो, धर्मात्, यत्तदोर्नित्याभिसंबन्धात्
दीप
अनुक्रम
[६]
JaEcon
~ 174~