________________
आगम (४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
वसकालियंति नाम संखाए कालो य निद्देसो । दसकालियसुअखधं अज्झयणुदेस निक्खिविउ ॥ ७॥ ४ व्याख्या-'दशकालिकं' प्राग्निरूपितशब्दार्थम् इति एवंभूतं यत् 'नाम' अभिधानं, इदं किम् ?-संख्यानं
संख्या तया, तथा 'कालतश्च' कालेन चायं-निर्देशः' निर्देशनं निर्देशः, विशेषाभिधानमित्यर्थः, अस्य च निवन्धनं विशेषेण वक्ष्यामः 'मणगं पडुच्च' इत्यादिना ग्रन्थेन, यतश्चैवमतः 'दसकालियति कालेन निवृत्तं कालिक दशशब्दस्य काल शब्दस्य च निक्षेपा, निर्वृत्तार्थस्तु निक्षेपः, तथा श्रुतस्कन्धं तथाऽध्ययनं "उद्देशं तदेकदेशभूतं, किम् ?-निक्षेप्तुमनुयोगोऽस्य कर्तव्य इति गाथार्थः । तत्र 'यथोद्देशं निर्देश' इति न्यायादधिकृतशास्त्राभिधानोपयोगित्वाच दशशब्दस्यैवादी निक्षेपः प्रदश्यते-तत्र दशैकाद्यायत्ता वर्तन्ते, एकायभावे दशानाम-| प्यभावाद, अत एकस्यैव तावन्निक्षेपप्रतिपिपादयिषयाऽऽह
णाम ठपणा दविए माज्यपयसंगहेकाए चेव । पजवभावे य तहा सत्तेए एकगा होति ।। ८॥ व्याख्या-इहैक एच एकका, तत्र 'नामैकक' एक इति नाम 'स्थापनकक' एक इति स्थापना, 'द्रव्यैककं । त्रिधा-सचित्तादि, तत्र सचित्तमेकं पुरुषद्रव्यं, अचित्तमेकं रूपकद्रव्यं, मिश्रं तदेव कटकादिभूषितं पुरुषद्रव्यमिति, 'मातृकापदैककम् एकं मातृकापदं, तद्यथा-'उप्पन्ने इवें खादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा-"उप्पन्ने इ वा विगमे इ वा धुवेइ चा" अमूनि च (वा) मातृकापदानि "अ आ इई" इत्येवमादीनि, सकलशब्दव्यवहारव्यापकत्वान्मातकापदानि, इह चाभि
दश.
Jianta.cahani
janabraryang.
~16~