________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा ||५|| नियुक्ति: [१४३], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक ||५||
व्याख्या-'साय'ति सातवेदनीयं कर्म 'संमत ति सम्यक्त्वं सम्यग्भावः सम्यक्त्वं-सम्यक्त्वमोहनीयं कमैव. पुमति पुंवेदमोहनीयं 'हासंति हस्यतेऽनेनेति हासः तद्भावो हास्य-हास्यमोहनीयम्, रम्यतेऽनयेति रतिःक्रीडाहेतुःरतिमोहनीय कमैव, 'आउनामगोयसुहं ति अत्र शुभशब्दः प्रत्येकमभिसंबध्यते अन्ते वचनात् ,ततश्च आय: शुभ नाम शुभं गोत्रं शुभम्, तत्रायुः शुभं तीर्थकरादिसम्बन्धि नामगोत्रे अपि कर्मणी शुभे तेषामेव भवतः, तथाहि-यशोनामादि शुभंतीर्थकरादीनामेव भवति, तथोर्गोषं तदपि शुभं तेषामेवेति, धर्मफल मिति धर्मस्य फलम् धर्मफलं, धर्मेण था फलं धर्मफलम् , एतद् अहिंसादेर्जिनोक्तस्यैव धर्मस्य फलम्, अहिंसादिना जिनोक्तेनैव वा धर्मेण फलमवाप्यते, सर्वमेव चैतत्सुखहेतुत्वाद्धितम् , अतः स एव धर्मो मङ्गलं न श्वशुरादयः,
तथाहि-मायते हितमनेनेति मङ्गलम् , तच यथोक्तधर्मेणैव मन्यते नान्येन, तस्मादसावेव मङ्गलं न जिनवचनदयाह्याः श्वशुरादय इति स्थितम् । आह-'मङ्गलबुद्ध्यैव जनः प्रणमती'त्युक्तं तत्कथम् ? इति, उच्यते, मङ्गल
बुद्ध्यापि गोपालाङ्गनादिर्मोहतिमिरोपप्लुतबुद्धिलोचनो जनः प्रणमन्नपि न मङ्गलवनिश्चयायालम्, तथाहिन तैमिरिकद्विचन्द्रोपदर्शनं सचेतसां चक्षुष्मतां द्विचन्द्राकारायाः प्रतीतेः प्रत्ययतां प्रतिपद्यते, अतद्रूप एव तद्रूपाध्यारोपद्वारेण तत्प्रवृत्तेरिति । 'आइदुर्गति आद्यद्वयं प्रागुक्तं तस्मिन् आद्यद्यविषये, विपक्षप्रतिषेधः, 'मों' इति निपातो वाक्यालङ्कारार्थः 'एष' इति यथा वर्णित इति गाथार्थः ॥ १४३ ॥ इत्थमाद्यद्वयविपक्षप्रतिषेधः प्रतिपादितः, सम्प्रति हेतुतच्छुद्ध्योर्विपक्षप्रतिषेधप्रतिपिपादयिषयेदमाह
RECAREL
दीप अनुक्रम
Jamaicahan
~ 158~