________________
आगम
(४२)
प्रत सूत्रांक /
गाथांक
||3||
दीप अनुक्रम
[3]
दशवैका ० हारि-वृत्तिः
॥ ७१ ॥
Ja Education
अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||३||
मुनि दीपरत्नसागरेण संकलित
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः)
निर्युक्तिः [१२१],
भाष्यं [४...]
आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
व्याणि च तानि पुद्गलद्रव्याणि द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम्, तथा चैते पुद्गलाः केचिदद्रव्याः सन्तोsभ्युपगम्यन्ते, 'सर्वे भावा निरात्मानः' इत्यादिवचनाद्, अतः पुद्गलानां परमार्थसद्रूपताख्यापनार्थे द्रव्यप्रहणम्, वाशब्दो विकल्पवाची, पुद्गलद्रव्याणि वा संसारिणो वा जीवा विहङ्गमा इति । तत्र जीवानधिकृत्यान्वर्थो निदर्शितः, पुद्गलास्तु विहं गच्छन्तीति विहङ्गमाः, तब गमनमेषां खतः परत संभवति, अत्र स्वतः | परिगृह्यते, विहङ्गमा इति च प्राकृतशैल्या जीवापेक्षया वोक्तम्, अन्यथा द्रव्यपक्षे विहङ्गमानीति वक्तव्यम्, एष भावविहङ्गमः, कथम् ? – 'गुणसिद्ध्या' अन्वर्थसम्बन्धेन, प्राकृतशैल्या वाऽन्यथोपन्यास इति गाधार्थः ॥ १२१ ॥ एवं गुणसिङ्ख्या भावविहङ्गम उक्तः, साम्प्रतं संज्ञासिद्ध्या अभिघातुकाम आह
सन्नासिद्धिं पप्पा विहंगमा होति पक्खिणो सब्बे । इहई पुण अहिगारो विहासगमणेहि भमरेहिं ॥ १२२ ॥ व्याख्या--संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तथा सिद्धिः संज्ञासिद्धिः, संज्ञासम्बन्ध इतियावत्, तां संज्ञासिद्धिं 'प्राप्य' आश्रित्य किम् ? -विहे गच्छन्तीति विहङ्गमा भवन्ति, के? - पक्षा येषां सन्ति ते पक्षिणः, 'सर्वे' समस्ता हंसादयः, पुद्गलादीनां विहङ्गमत्वे सत्यप्यमीषामेव लोके प्रतीतत्वात् इत्थमनेकप्रकारं विहङ्गममभिधाय प्रकृतोपयोगमुपदर्शयति- 'इह' सूत्रे, पुनः शब्दोऽवधारणे, इहैव नान्यत्र 'अधिकार' प्रस्तावः प्रयोजनम्, कैरित्याह-- विहायोगमनैः' आकाशगमनैः 'भ्रमरैः षट्पदैरिति गाथार्थः ॥ १२२ ॥
१ प्रयाणां नपुंसकत्वादत्र पुंस्स्वनिर्देशः प्रकृत्या तृतीयां प्रथमेति
For ane & Personal Use City
~ 145~
१ द्रुमपुष्पिका० विहङ्गम
निक्षेपाः
॥ ७१ ॥
brary dig