________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
|||||
दीप
अनुक्रम
[3]
भाष्यं [२]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१], उद्देशक [ - ], मूलं [-] / गाथा ||१|| निर्युक्ति: [९५], आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
इति, अयं च प्राग् व्याख्यात एव, शुद्धिमभिधातुकामेन च भाव्यकृता पुनरुपन्यस्त इति, अत एवाह-हैतोर्विशुद्धिर्हेतुविशुद्धिः, विषयविभाषाव्यवस्थापनं विशुद्धिः, 'इमा' इयं 'तत्र' प्रयोग इति गाथार्थः ॥
जं भत्तपाणडबगरणवसहिसयणासणासु जयंति । फासूयञकय अकारियअणणुमयाणुट्टिभोई य ॥ २ ॥ ( भाष्यम्) | व्याख्या—'यद्' यस्मात्, भक्तं च पानं चोपकरणं च वसतिश्च शयनासनादयश्चेति समासस्तेषु, किम् ? – 'यतन्ते' प्रयत्नं कुर्वन्ति, कथमेतदेवमित्यत्राह यस्मात् प्रासुकं चाकृतं चाकारितं चाननुमतं चानुद्दिष्टं च तद्भोक्तुं शीलं येषां ते तथाविधाः, तत्रासवः प्राणाः प्रगता असवः प्राणा यस्मादिति प्रासुकं निर्जीवम्, तच्च स्वकृतमपि भवत्यत आह-अकृतम्, तदपि कारितमपि भवत्यत आह-अकारितम्, तदप्यनुमतमपि भवत्यत आह- अननुमतम्, तदप्युद्दिष्टमपि भवति यावदर्थिकादि न च तदिष्यत इत्यत आह-अनुद्दिष्टमिति । एतत्प| रिज्ञानोपायश्चोपन्यस्तसकलप्रदानादिलक्षणसूत्रादवगन्तव्य इति गाथार्थः ॥ तदन्ये पुनः किमित्यत आहअफासुयकयकारियअणुमयउद्दिडभोइणो हंदि । तस्थावरहिंसाए जणा अकुसला उ लिप्पति ॥ ३ ॥ (भाष्यम् ) ॥
व्याख्या- अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्वरकादयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति ? -त्रसन्तीति त्रसाः - द्वीन्द्रियादयः तिष्ठन्तीति स्थावराः - पृथिव्यादयः तेषां हिंसा-प्राणव्यपरोपणलक्षणा तया 'जनाः' प्राणिनः 'अकुशला': अनिपुणाः स्थूलमतयश्वरकादयो 'लिप्यन्ते' सम्बध्यन्त इत्यर्थः इह च हिंसाक्रि
For ane & Personal Use Oily
~130~
brary dig