________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९६] .” “नियुक्ति: [८१] + भाष्यं [१५...] + प्रक्षेपं [] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति:
.
प्रत
गाथांक नि/भा/प्र ||८१||
क्षणे दोहदमजायत, दौहदे चासम्पद्यमाने तस्याः खेदवशतः शरीरस्य दौर्बल्यमभवत्, तच्च दृष्ट्वा नृपतिः सखे तां पृष्टयान् , यथा-दा प्रिये ! किमतीव शरीरे तब दौर्बल्यमजायत !, ततः सा दोहदमचकयत । ततो राजा सत्वरं कनकटकुरकानयनाव पुरुषान् प्रेषितवान् , तिऽपि च पुरुषाः स्वचेतसि चिन्तयामासुः-इह यस्य यदलभं स तत्रासक्तः सन् प्रमादभावं भजमानः मुखेनैव बध्यते, कनकपृष्ठानां च कुरगाणामिष्टानि श्रीपीफलानि, तानि च सम्पति न विद्यन्ते, ततस्तत्सदृशान्मोदकान् कृत्वा श्रीपणांक्षतळेषु सर्वतः पुञ्जकपुञ्जका-|| कारेण क्षिप्त्वा तेषां समीपे पाशान स्थापयाम इति तथैव कृतं, ते च कनकपृष्ठा रुरवो निजेन यूधाधिपतिना सह स्वेच्छया परिभ्रमन्तस्तत्रागताः, यूथाधिपतिय श्रीपणीफलाकारान् पुञ्जकपुञ्जकस्थितान्मोदकानवलोक्य मृगानुक्तवान् , यथा--भो रुखो ! युष्माकं बन्धनार्थमिदं केनापि धूर्तेन कृतं कूटं वर्तते, यत्तो न सम्पति श्रीपर्णीफलानि सम्भवन्ति, न च सम्भवन्त्यपि पुञ्जकपुञ्जकाकारेण घटन्ते, अथ : मन्पेयास्तथाविधपरिभ्रमद्वातसम्पर्कतः पुजकपुञ्जकाकारेण घटन्ते, तदप्ययुक्तं, ननु पुरापि वाता वान्ति स्म, न तु कदाचनाप्पेवं पुञ्जकपु-18 अकाकारण भवन्ति स्म, तथा चैतदेव नियुक्तिकारः पठति
विइअमेयं कुरंगाणं, जया सीवन्नि सीयइ । पुरावि वाया वायंता न उणं पुंजकपुंजका ॥ ८२ ॥
व्याख्या-'विदित' प्रतीतम् , एतत्कुरगाणां यदा श्रीपणी 'सीदति' धातूनामनेकार्थत्वाकलति, तस्मान्नेदानी फलानि सम्भवन्ति, सम्भवन्तु वा तथाऽपि कथं पुजकपुञ्जकाकारेण स्थितानि !, वातशाचेन्ननु पुरापि वाता वान्ति स्म, न पुनरेवं पुञ्जकपुञ्जकाः फलानामभवन, तस्मास्कूटमिदमस्माकं बन्धनाय कृतं वत्तते इति मा यूयमेतेषामुपकण्ठं गमत, एवमुक्ते यैस्तद्वचः प्रतिपनं ते दीर्घजीविनो बनेषु स्वेच्छाविहारसुखभागिनश्चाजायन्त, यैस्त्वाहारलम्पटतया तदवो न प्रतिवनं ते पाशवन्धनादिदुःखभागिनोऽभवन् । इह या
दीप अनुक्रम
~64~