________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [-] .→ “नियुक्ति: [१] + भाष्यं [-] + प्रक्षेपं - . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१||
श्रीपिण्ड- कालिको नाम श्रुतस्कन्धा, तत्र च पञ्चममध्ययनं पिण्डैषणानामक, दशबैकालिकस्य च नियुक्तिश्चतुर्दशपूर्वविदा भद्रबाहुस्वामिना नियुक्तिः
| कृता, तत्र पिष्टैषणाभिधपश्चमाध्ययननियुक्तिरतिप्रभूतग्रन्थत्वात्पृथक् शास्त्रान्तरमिव व्यवस्थापिता, तस्याश्च पिण्डनियुक्तिरिति नाम कृतं, पिण्डैषणानियुक्तिः पिण्डनियुक्तिरिति मध्यमपदलोपिसमासाश्रयणाद्, अत एव चादावत्र नमस्कारोऽपि न कृतो, दशवकालिकनियुक्त्यन्तर्गतत्वेन तत्र नमस्कारेणैवात्र विनोपशमसम्भवात्, शेषा तु नियुक्तिर्दशवैकालिकनियुक्तिरिति स्थापिता ॥ अस्याश्च पिण्डनियुक्तेरादाक्यिमधिकारसङ्काहगाया
पिंडे उग्गमउप्पायणेसणा [स]जोयणा पमाणं च । इंगाल धूम कारण अट्टविहा पिंडनिज्जुत्ती ॥ १॥ |
व्याख्या-पिण्ड संघाते ' पिण्डनं पिण्ड:-सङ्घातो बहूनामेकत्र समुदाय इत्यर्थः, समुदायश्व समुदायिभ्यः कथञ्चिदभिन्न इति त एवं बहवः पदार्थो एकत्र समुदिताः पिण्डशब्देनोच्यन्ते, स च पिण्डो यद्यपि नामादिभेदादनेकपकारो वक्ष्यते तथाऽजीह संयमादिरूपभावपिण्डोपकारको द्रव्यपिण्डो गृहीष्यते, सोऽपि च द्रव्यपिण्डो यद्यप्याहारशय्योपधिभेदात् विप्रकारः, तथाऽप्यत्राहारशुद्धेः प्रक्रान्तत्वादाहाररूप एवाधिकरिष्यते, ततस्तस्मिन्नाहाररूपे पिण्डे विषयभूते प्रथमत उद्मो वक्तव्यः, तत्र उद्गमः उत्पत्चिरित्यर्थः, उद्मशब्देन च इह उद्गमगता दोषा अभिधीयन्ते, तथाविवक्षणात् , ततोऽयं वाक्यार्थ:-प्रथमत उद्गमगता आधार्मिकादयो दोषा वक्तव्याः, ततः ' उप्पा
यणत्ति उत्पादनमुत्पादना, धात्रीत्वादिभिः प्रकारः पिण्डस्य सम्पादनमिति भावः, सा वक्तण्या, किमुक्तं भवति ?-उद्गमदोषाभिधानानअन्तरमुत्पादनादोषा धात्रीत्वादयो वक्तव्याः, तत 'एसण' ति एपणमेपणा सा वक्तव्या, एषणा विधा-तयथा-गवेषणेषणा ग्रहण
दीप अनुक्रम [१]
'पिण्डनियुक्ति' विषय-अधिकार संग्रहगाथा
~5~