________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६२४] .. “नियुक्ति: [५८२] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५८२||
क्षिपेत् , यद्वा येन स्थाल्यादिना भाजनेन कृत्वा भिक्षामानयति तस्य भूमौ निपाते भेदः-स्फोटनं स्यात् , एवमेव ज्वरितेऽपि दोषा भावनीयाः, किंच-ज्वरितादहणे ज्वरसङ्क्रमणमपि साधीभवेत् , तथा जने उड्डाहो-ययाऽहो ! अमी आहारलम्पटा यदित्यं ज्वरपीडितादपि भिक्षां गृह्णन्तीति । अन्धगलत्कुष्ठावाश्रित्य दोषानाह
उड्डाह कायपडणं अंधे भेओ य पास छुहणं च । तहोसी संकमणं गलंतभिसभिन्नदेहे य ॥ ५८३ ॥
व्याख्या-अन्धादिक्षाग्रहणे उड्डादः, स चायम्-अहो! अमी औदरिका यदन्यादपि मिलां दातुमशक्नुवतो भिक्षा गृह्णन्तीति, तथा 'अन्धः' अपश्यन पादाभ्यां भूम्पाश्रितपडूजीवनिकायघातं विदधाति, तथा लोष्ट्रादौ स्खलितः सन् भूमौ निपतेत , तथा च सति भिक्षादामायोत्पाटितहस्तगृहीतस्थाल्पादिभाजनभङ्गः, तथा स देयं वस्तु पायें-भाजनबहिस्तात पक्षिपेददर्शनात्, तस्मादन्धादपिन ग्राह्यम् । तथा त्वग्दोषिणि, किंविशिष्टे ? इत्याह-गलशभिन्न देहे' आपत्ताद्वयत्यासेन पदयोजना, सा चैव- भृशम् ' अतिशयन
गलत् ' अर्द्धपक्वं रुधिरं च बहिर्वहन भिन्नश्च-स्फुटितो देहो यस्य स तथा तस्मिन् दातरि 'सक्रमगं' कुष्ठ व्याधिसङ्क्रान्तिः स्यात, तस्माचतोऽपि न ग्राह्यम् । सम्पति पादुकारूढादिचतुष्टयदोषानाहपाउयदुरूढपडणं बढे परियाव असुइखिसा य । करछिन्नासुइ खिसा ते चिय पायेऽवि पडणं च ॥ ५८४ ॥
व्याख्या-पादुकारूढस्य भिक्षादानाय प्रचलतः कदाचिदुःस्थितत्वेन पतनं स्यात् , तथा बद्धे दातरि भिक्षां प्रयच्छति 'परिताप:' दुःखं तस्य भवेत् , तथा 'असुइ 'चि मूत्राात्सर्गादौ जलेन तस्य शौचकरणासम्भवात्ततो भिक्षाग्रहणे लोके जुगुप्सा, यथा
दीप अनुक्रम [६२४]
कहकर
~322~