________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५३४] .. “नियुक्ति: [४९६] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४९६||
मे हृतं घृतादि ? केनाह मुषितोऽस्मि ? इति विलपितुं प्रवृत्तः, ततः परिजननोक्तं-युष्माभिरेव दापितं संयतेभ्यः तस्कि यूयमेवं भणय ?, ततो मौनमवलम्ब्य स्थितः । अत्र दोषानुपदर्शयति| पडिविज्ज थंभणाई सो वा अन्नो व से करिज्जाहि । पावाजीवीमाई कम्मणगारी य गहणाई ॥ ४९७ ॥
___व्याख्या—यो विद्ययाऽभिमन्त्रितः स च स्वभावस्थो जातः सन् कदाचित्मदिष्टोऽन्यो वा तत्पक्षपाती प्रविष्टः सन् प्रतिविद्यया 'स्तम्भनादि' स्तम्भनोचाटनमारणादि कुर्यात, तथा 'पापाजीविनः' पापेन-विद्यादिना परद्रोहकरणरूपेण जीवनशीला मायिनः शठा इति लोके जुगुप्सा, तथा कार्मणकारिण इमे इति राजकुले ग्रहणाकर्षणवेषपरित्याजनकदर्थनमारणादि । सम्पति मन्त्रविषये मुरुण्डराजोपलक्षितपादलितोदाहरणमाहजह जह पएसिणी जाणुगंमि पालित्तओ भमाडेइ । तह तह सीसे वियणा पणस्सइ मुरुंडरायस्स ॥ ४९८ ॥
व्याख्या-प्रतिष्ठानपुरे मुरुण्डो नाम राजा, पादलिप्ता नाम सूरयः, अन्यदा च मुरुण्डराजस्य बभवातिशयेन शिरोवेदना, न बाकेनापि विद्यामन्त्रादिभिरुपशमयितुं शक्यते, तत आकारिता राज्ञा पादलिप्ताः सूरयः, कृतास्तेषामागतानां महसी प्रतिपत्तिः, कथितंभ
चाकारणकारणं शिरोवेदना, ततो यथा कोको न जानीते तथा मन्त्र ध्यायद्भिः प्रावरणमध्ये निजदक्षिणजानुशिरास पार्थतो निजदक्षिणहस्तपदेशिनी यथा यथा भ्राम्यते तथा तथा राज्ञः शिरोवेदना अपगच्छति, ततः क्रमेणापगता सकलाऽपि शिरोवेदना, जातोऽतिशयेन सूरीणामुपासकः, ततो विपुलं भक्तपानादिकं तेभ्यो दत्तवान् । अत्र दोषानाह
दीप अनुक्रम [५३१]
~286~