________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||२७३||
दीप
अनुक्रम
[२९८]
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
-->
“निर्युक्तिः [२७३ ] + भाष्यं [ २४...] + प्रक्षेपं [२...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [ २९८ ]
मुनि दीपरत्नसागरेण संकलित
व्याख्या- ' आत्मार्थ' कुटुम्बार्थं गृहिण्या 'राध्यमाने पच्यमाने गृहनायको यावदर्शिक मिश्रप्रवर्तकगृहनायकापेक्षया द्वितीयो भणति, यथा पाखण्डिनामप्यर्थायाधिकं प्रक्षिप । तथाऽऽत्मार्थमेव राध्यमाने तृतीयो गृहनायको ब्रूते, यथा-निर्ग्रन्थानामर्थायाधिकं प्रक्षिपेति । तत एवं श्रुते पाखण्डिमिश्रसाधुमिश्रयोरपि परिज्ञानं भवति । सम्पति यदुक्तमेतत् 'मिश्रजातं पुरुषसहस्रान्तरगतमपि न कल्पते' इति, तद्दृदृष्टान्तेन भावयति-
विसघाइय पिसियासी मरइ तमन्नोवि खाइउं मरइ । इय पारंपरमरणे अणुमरइ सहस्ससो जात्र ॥ २७४ ॥
व्याख्या - इह कोऽपि वैधकेन विषेण घातितः, तस्य पिशितं योऽश्नाति सोऽपि म्रियते, तस्यापि मांसं यो भक्षयति सोऽपि त्रियते, एवं परम्परया मरणे तावद् ' अतु' पाश्चात्यः पाश्चात्यो त्रियते, यावत्ते म्रियमाणाः सङ्ख्यया सहस्रशो भवन्ति । इत्थं सहस्रवेधकस्य | विपस्य प्रभावः यत्सहस्रान्तरगतमपि मारयतीति भावः ।
एवं मीसज्जायं चरणष्पं हणइ साहु सुविसुद्धं । तम्हा तं नो कप्पइ पुरिससहस्संतरगयपि ॥ २७५ ॥
व्याख्या -' एवं ' सहस्रवेधकविपमिव यावदर्थिकपाखण्डिसाधुविषयं मिश्रजातमध्ये केनान्यस्मै दत्तं तेनाप्यन्यस्मायित्येवं परम्परया पुरुषसहस्रान्तरगतमपि साधोः सुविशुद्धं चरणात्मानं हन्ति, तस्मान्न कल्पते साधूनां सहस्रान्तरगतमपि मिश्रं । सम्पति साधुविषयं विधिमाहनिच्छोडिए करीसेण बावि उच्चट्टिए तओ कप्पा । सुक्कावित्ता गिण्हइ अन्न चउत्थे असुकेऽवि ॥ २७६ ॥ व्याख्या - मिश्र कथमपि गृहीते पश्चात्चस्मिंस्त्यक्ते सति भाजने 'निच्छोटिते' अङ्गुल्यादिना निरवयवे कृते यद्वा 'करीषेण
Eaton Internationa
For Parts Only
~ 180~