________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥५६||
दीप
अनुक्रम [४]
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [१४]
→
मुनि दीपरत्नसागरेण संकलित
८०
“निर्युक्ति: [ ५६ ] + भाष्यं [ ३४... ] + प्रक्षेपं [३...]" आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
'यस्मिन् ' वस्तुनि कोधादौ निषेव्यमाणे 'अतिचारः स्खलना भवति 'कस्यचित्' साधोः 'कदाचित्' कस्याश्चिदवस्थायां 'तेनैव' क्रोधादिना तस्यैव पुनः कदाचिच्छुद्धिरपि भवेत्, चण्डरुद्रसाधोरिख, तेन हि रुषा स्वशिष्यो दण्डकेन ताडितः, तं च रुधिरार्द्रं दृष्ट्वा पश्चात्तापवान् संवृत्तः चिन्तयति च धिग्मां यस्यैवंविधः क्रोधः इति विशुद्धपरिणामस्यापूर्वी करणं क्षपकश्रेणिः केवलोदयः संवृत्त इति ॥ बाह्यं व्यापारमङ्गीकृत्य विसदृशतोक्ता, अथ बाह्योऽपि व्यापारो यथा बन्धहेतुर्न
स्यात्तथाऽऽह-
अणुमित्तोऽवि न कस्सई बंधो परवत्थुपचओ भणिओ । तहवि अ जयंति जहणो परिणामविसोहिमिच्छता ॥ ५७ ॥
'अणुमात्रोऽपि ' स्वल्पोऽपि बन्धो न कस्यचित् 'परवस्तुप्रत्ययाद्' बाह्यवस्तुनिमित्तात्सकाशाद् 'भणितः' उक्तः, किन्त्वात्मपरिणामादेवेत्यभिप्रायः । आह-यद्येवं न तर्हि पृथिव्यादियतना कार्या, उच्यते, यद्यपि बाह्यवस्तुनिमित्तो बन्धो न भवति तथाऽपि यलं विदधति पृथिव्यादौ मुनयः परिणामविशुद्धिं 'इच्छन्तः' अभिलषन्तः, एतदुक्तं भवति-यदि पृथिव्यादिकाययतना न विधीयते ततो नैवेयं स्यात्, यस्तु हिंसायां वर्त्तते तस्य परिणाम एव न शुद्धः, इत्याह
जो पुण हिंसायपणे वहई तस्स नणु परीणामो । दुट्ठो न य तं लिंगं होइ विसुद्धस्स जोगस्स ॥ ५८ ॥ यस्तु पुनः 'हिंसायतनेषु व्यापत्तिधामसु वर्त्तते तस्य ननु परिणामो दुष्ट एव भवति, न च तद्धिंसास्थानवर्त्तित्वं 'लिङ्गं' चिह्नं भवति 'विशुद्धयोगस्य' मनोवाक्कायरूपस्य ॥
तम्हा सया विसुद्ध परिणामं इच्छया सुविहिरणं । हिंसायपणा सर्वे परिहरियवा पयसेणं ॥ ५९ ॥
For Park Use Only
~78~
nerary org