________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९०] . "नियुक्ति: [१२] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२||
SAMRACANCISC-SATESCREE
एवमेव 'निर्जरा' फलविशेषा अपि परिणामवशाद् 'बहुविधा' बहुप्रकारा विशिष्टविशिष्टतरविशिष्टतमाः । एका प्राणिजा-1 तिमङ्गीकृत्यान्तरमुक्तम् , अधुना सकलव्यक्त्याश्रयमन्तरं प्रतिपिपादयिपुराहजे जत्तिआ अहेऊ भवस्स ते चेव तत्तिआ मुक्खे । गणणाईया लोगा दुहवि पुषणा भवे तुल्ला ॥५३॥ । ये हेतवो यावन्तो-यावन्मात्रा 'भवस्य' संसारस्य निमित्तं त एव नान्ये तावन्मात्रा एव मोक्षस्य हेतवो-निमित्तानि । कियन्मात्रास्ते अत आह-गणनाया अतीताः-सङ्ख्याया अतिक्रान्ताः, के?, लोकाः 'द्वयोरपि भवमोक्षयोः संबन्धिनां हेतूनामसङ्खयेया लोकाः 'पूर्णाः' भृताः, ते तु पूर्णा एकहेतुन्यूना अपि भवन्त्यत आह-तुल्याः, कथंभूताः?-क्रियाविशेषणं 'तुल्या' सदृशा इत्यर्थः । ननु तुल्यग्रहणमेव कस्मात्केवलं न कृतं ? येन पुनः पूर्णग्रहणं क्रियते, भण्णति पडिवयर्ण-तुल्लग्गहणेण | संवलिआणं संसारमोक्खहेऊणं लोका तुलत्ति कस्सति बुद्धी होजा तेण पुण्णग्गहणंपि कीरइ, दोण्हवि पुण्णत्ति जया जया | भरिअत्ति नेयवा, इयमत्र भावना-सर्व एव ये त्रैलोक्योदरविवरवर्तिनोभावा रागद्वेषमोहात्मनां पुंसां संसारहेतवो भवन्ति त एव रागादिरहितानां श्रद्धामतामज्ञानपरिहारेण मोक्षहेतवो भवन्तीति एवं तावत्प्रमाणमिदमुक्तम् , इदानीं येषाममी त्रैलोक्यापन्नाः पदार्था बन्धहेतवो भवन्ति न भवन्ति च येषां तदाह
इरिआवहमाईआ जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव उ जयाण निवाणगमणाय ।। ५४॥ 'ईर गतिप्रेरणयोः' ईरणमीर्या पथि ईर्या ईर्यापथ-गमनागमनमित्यर्थः, ईर्यापथमादौ येषां ते ईर्यापथाद्याः, आदिशब्दादृष्टिवागादिव्यापारा गृह्यन्ते, ईर्यापधाद्या व्यापारा य एव भवन्ति 'कम्मबंधाय' कर्मबन्धनिमित्त-कर्मबन्धहेतवः, केषाम् ?
ACCASSACROCOCCAREE
दीप अनुक्रम [९०]
ओ०७ SHREtam
~ 76~