________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११५८] → “नियुक्ति: [८०४] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
गाथांक नि/भा/प्र ||८०४||
॥२२६॥
तिच्या, एतदुक्तं भवति-मूलगुणोत्तरगुणालोचनया भावशुद्धिर्भवतीति । एवं तावन्मूलगुणोत्तरगुणेषु छलितेनालोचना, विशुद्धिः दातव्या । इदानीं यस्मै आलोचना दीयते तेनाप्यालोचयितव्यमिति, एतदेव प्रदर्शयन्नाह-जातिकुलबलरूपादिषट्त्रिंशद्गुण- नि. ७९३समन्वितेनाप्यवश्य परसाक्षिकी शुद्धिः कर्त्तव्या सुष्टुपि ज्ञानक्रियाव्यवहारकुशलेन-सुविहितेनेति । अत्रोदाहरणं दीयते
८०४ यथा कुशलोऽपि वैद्योऽन्यस्मै वैद्याय कथयति आत्मच्याधि, श्रुत्वा च तस्य वैद्यस्य सोऽपि वैद्यो यस्मै कथितं स प्रतिकर्म आरभते । एवं जानताऽपि प्रायश्चित्तविधिमात्मनः सम्यकरणेन तथाऽपि प्रकटतरमालोचयितव्यमवश्यमिति। किञ्च-सुगमा। 'नहु' नैव शुद्ध्यति सशल्यः पुरुषः, कथं पुनः शुद्धयति ?, यथा भणितं धुतरजसो शासने तथा शुद्धयति, कथं पुनः शुध्यति अत आह-उदृतसर्वशल्यो जीवः शुद्ध्यति धुतक्लेश इति, तस्माद्यद्यपि कथमपि किश्चिदकार्य कृतं तथाऽप्यालोचयितव्यम् । कथं पुनस्तस्कृतं भवतीत्यत आह-'सहसा' अप्रतर्कितमेव प्राणिवधादिकमकार्य यदि कृतं ततस्तस्मात्प्रतिक्रमितच्या मित्येतत् द्वितीयगाथायां वक्ष्यते, अज्ञानेन च कृतं न तत्र प्राणी ज्ञातो व्यापादितश्च, भीतेन-आत्मभयात् मा भूदय मां मारयिष्यतीत्यतः प्राणव्यपरोपणं यदि कृतं, प्रेरितेन वा परेण यदि कृतं, व्यसनेन वा आपदा यदि कृतं आतङ्केन वाग्चराद्युपसर्गेण यदि कृतं मूढेन वा-रागद्वेषैर्यत्कृतं किश्चिदकार्य ततः यत्किश्चित्कृतमकार्य तत्पुनः 'नहु' नैव समाचरितुं। लब्भा-उपलभ्येत यथा तथा प्रतिक्रमितव्यं, एतदुक्तं भवति-किश्चिदकार्यं कृत्वा पुनर्यथा नैव क्रियते तथा तस्य प्रति
२२६॥ क्रमितव्यं, न पुनस्तदकार्य हृदयेन वोढव्यं, सर्वमालोचयितव्यमित्यर्थः । कथं पुनस्तदालोचयितव्यमित्यत आह-तस्य | PIच साधोयत्प्रायश्चित्तं मार्गविदो गुरव उपदिशन्ति तत्प्रायश्चित्तं 'तथा' तेनैव विधिनाऽऽचरितव्यं, कथम् ?, अनवस्था
ROCK
दीप अनुक्रम [११५८]
+
+
~455~