________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
॥७१७||
दीप
अनुक्रम [१०७१]
मूलं [१०७१] ● → मुनि दीपरत्नसागरेण संकलित
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [ ७१७] + भाष्यं [ ३२२... ] + प्रक्षेपं [३०...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
विधिरित्यत आह-'ध्रुवलम्भे' धुवे - अवश्यम्भाविनि प्रायोग्यलाभे सत्ययं विधिः, 'सेस उभयंपित्ति शेषा - येऽन्ये सङ्घाट - कास्ते आत्मार्थमुभयमपि भक्तं पानकं च गृह्णन्ति, एकः पानकमेकस्मिन् प्रतिग्रहके गृह्णाति द्वितीयस्तु भक्तं गृह्णाति एवं | सर्वेऽपि सङ्घाटका भिक्षामटन्तीति, ततश्चैत्रं मात्रकग्रहणं न संजातमिति । अथ ध्रुवलम्भः प्रायोग्यस्य न तस्मिन् क्षेत्रे ततः को विधिरित्यत आह
असई लाने पुणमतए य सधे गुरूण गेण्हंति । एसेव कमो नियमा गिलाणसे हाइएसुंपि ॥ ७१८ ॥ असति लम्भे पुनः प्रायोग्यस्य सर्व एव सङ्घाटका मात्रकेषु गुरोः प्रायोग्यं गृह्णन्ति, यतो न ज्ञायते कः किंचिल्लप्स्यते आहोश्चिनेत्यतो गृहन्ति, एष एव क्रमो 'नियमात्' नियमत एव ग्लानशिष्यकादिष्वपीति । अथवा
दुल्लभदवं व सिया घयाह तं मत्तएसु गेव्हंति । लद्धेवि उ पज्जन्ते असंधरे से सगट्टाए ।। ७१९ ॥ दुर्लभं वा द्रव्यं स्याद् घृतादि तन्मात्रकेषु गृह्णन्ति । तथा उन्धेऽपि भक्ते पर्याप्त आत्मार्थं तथाऽपि यदि न संस्तरति न सरति ग्लानवृद्धादीनां ततोऽसंस्तरणे सति ग्लानवृद्धादिशेषार्थं तावत्पर्यटन्ति यावत्पर्याप्तं भक्तं ग्लानादीनां भवतीति । अथवाऽनेन प्रकारेण मात्रकग्रहणं संभवति
Eucation International
संसत्तभक्त्तपाणे वावि देसेसु मत्तए गहणं । पुत्रं तु भत्तपाणं सोहेउ छुर्हति इयरेसु ॥ ७२० ॥ यत्र प्रदेशेषु स्वभावेनैव संसक्तभक्तपानं सम्भाव्यते, तेषु संसक्तभक्तपानेषु देशेषु सत्सु प्रथमं मात्रके ग्रहणं क्रियते,
For Parts Only
~434~