________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६३०] » “नियुक्ति : [३९४] + भाष्यं [२०९...] + प्रक्षेपं [२६...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
560%
प्रत
गाथांक नि/भा/प्र ||३९४||
'लेस्थारियाणि' लिप्तानि, केन ?, लेपेनेति संबन्धः, यानि घट्टकादीनि, तत्र घट्टको-येन पापाणकेन पात्रं नवलेपं मसणं क्रियते, आदिग्रहणाच्छरावं चीरं च लेपलिप्त, एतानि लेपेन सर्वाण्येव लिप्तानि तत्र पात्रक लिम्पतः, ततश्च तानि घट्ट-16 कादीनि भूत्या गुण्डयति, येन तत्र प्रतिष्ठापितानां सतां कीटिकाद्युपघातो न भवेत् । किमर्थं पुनरेवं क्रियते ?, अत: आह-संजमफातिनिमित्त मिति संयमवृद्ध्यर्धमिति । एवं लेवग्गहणं आणयणं लिंपणा य जयणा य । भणियाणि अतो वोच्छ परिकम्मविहिं तु लेवस्स ॥ ३९५ ॥
'एवम्' उक्तेन न्यायेन लेपग्रहणं तथा तस्यैवानयन लिम्पना च पात्रकस्य यतना च ग्रहणे लेपस्यैतानि भणितानि अतः परं वक्ष्ये परिकर्मविधिं लिप्तस्य पात्रकस्य । स चाय परिकर्मविधिःलित्ते छगणिअछारो घणेण चीरेणऽधि उण्हे । अंछण परियत्तण घट्टणे य धोवे पुणो लेवो ।। ३९६ ॥
लिप्ते तत्र पात्रके सति 'छगणियछारो'त्ति गोमयछारेण तत्पात्रक गुण्ड्यते, पश्चाच्च घनेन 'चीरेण पात्रकबन्धेन वेष्टयित्वा रजखाणेन च परिवेष्ट्या 'अंबधि'ति पात्रकबन्धग्रन्धिमदत्त्वा तत एवंविधं कृत्वा 'उण्हे'त्ति उष्णे स्थापयति, 'अंछण'त्ति ततोऽजल्या लिप्तस्य रङ्गितस्य पात्रकस्याकर्षण-समारणं करोति, आतपे कृत्वा पुनः परिवर्तयति-आतपाभिमुखं करोति, एवं शोषणा तस्य नवलेपस्य पात्रकस्य, धौते च छारगुण्डिते तत्र पात्रके पुनलेंपो दीयत इति । इदानी भाष्यकार एतामेव गाथां व्याख्यानयति, तत्र 'लिते छगणियछारो'त्ति इदं व्याख्यातमेव द्रष्टव्यं, शेष व्याख्यानयन्नाहदाउ सरयसाणं पत्ताधं अवंधणं कुजा । साणाइरक्खणट्टा पमज्ज छाउण्हसंकमणा ॥ २१॥ (भा०)
SAGARCACANC
दीप अनुक्रम [६३०]
witunaturary.orm
~290~