________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४२८] → “नियुक्ति: [२५५] + भाष्यं [१५०...] + प्रक्षेपं [२२...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
ACCE
गाथांक नि/भा/प्र ||२५५||
महार्थी चेति । उक्त स्थानस्थितद्वारं, तत्प्रतिपादनाच्च व्याख्यातेयं गाथा, यदुत "सिंगारबित्तियवसही ततिए सण्णी" इत्येवमादिका, तत्प्रतिपादनाचोका अनेके प्रत्युपेक्षकाः, तत्प्रतिपादनाच्चोक्तं प्रत्युपेक्षकद्धारमिति, तत्र यदुक्तम्-"एत्तो, पडिलेहणं वुच्छं"तामिदानी व्याख्यानयन्नाहदुविहा खलु पडिलेहा छउमत्थाणं च केवलीणं च । अम्भितर बाहिरिआ दुविहा दधे य भावे य ।। २५६ ॥13
द्विविधा प्रत्युपेक्षणा भवति, कतमेन द्वैविध्येनेत्यत आह-छद्मस्थानां संबन्धिना केवलिनां च, सा चैकैका द्विविधा- अभ्यन्तरा बाह्या थ, याऽसौ छद्मस्थानां सा द्विविधा-बाह्या अभ्यन्तरा च, या च केवलिनां साऽपि अभ्यन्तरा बाह्या च। 'दवे य भावे य'त्ति याऽसौ बाह्या प्रत्युपेक्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा भावविषयेति । तत्र केवलिप्रत्युपेक्षणां प्रतिपादयन्नाह
पाणेहि व संसत्ता पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा ॥ २५७॥
प्राणिभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिना, 'संसत्तमसंसतंत्ति संसक्तद्रव्यविषया असंसक्तद्रव्यटाविषया च छदास्थानां प्रत्युपेक्षणा भवतीति । आह-'यथोपन्यासस्तथा निर्देश' इति न्यायात्प्रथम छदास्थानां व्याख्यातुं कायुक्त पश्चारकेवलिनामिति, उच्यते, प्रधानत्वारकेवलिनां प्रथमं व्याख्या कृता पश्चाच्छद्मस्थानामिति, आह-तत्कथं प्रथम-1* हामेवमुपन्यासो न कृतः इति, उच्यते, तत्पूर्वकाः केवलिनो भवन्तीत्यस्यार्थस्य ज्ञापनार्थमिति ॥ अनेन वा कारणेन केवदलिनः प्रत्युपेक्षणां कुर्वन्तीति प्रतिपादयनाह
दीप अनुक्रम [४२८]
BRaitaram.org
प्रत्युप्रेक्षणा संबंधी विधानानि
~ 212~