________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२५६] → “नियुक्ति : [१६५] + भाष्यं [७८..] + प्रक्षेपं [१२...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१६५||
भवति, एवमेतद्यथासहवं योजनीयम् । 'पणगं तो एक दो तिण्णि' एवमसौ तस्मिन् क्षेत्रे पञ्चकमेकं धार्यते, अथ तथाऽपि
बलं न गृह्णाति द्वौ पञ्चको धार्यते, त्रीन् वा पश्चकान् धार्यते, पुनरानीयत इति । एवं ते आलोचितशिष्यगणा आचार्याः टूशय्यातरमाच्छच क्षेत्रान्तरं संक्रामन्ति । अथ न पृच्छन्ति ततो दोष उपजायते । एतदेवाह
सागरिअपुच्छगमणं बाहिरा मिच्छ छेय कयनासी।गिहि साहू अभिधारण तेणगसंकाइ जं चऽपणं ॥१६६ ॥ ___ 'सागारिक' शय्यातरं अनापृच्छच यदि गमनं क्रियते ततो 'बाहिर'त्ति बाह्या लोकधर्मस्यैते भिक्षवः इत्येवं वक्ति शय्यातरः, ये च धर्म लोकधर्म न जानन्ति दृष्टं ते कथमदृष्टं जानन्ति ? इत्यतः 'मिच्छत्ति मिथ्यात्वं प्रतिपद्यते, 'छेद'त्ति अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये चा वसतिं न लभन्ते, 'कतणासित्ति अकृतज्ञा ह्येते प्रवजिता इत्येवं मन्यते, गिहि साधू अभिधारण'त्ति गृही कश्चिच्छ्रावकस्तमाचार्यमभिधार्य-संचिन्त्यायातः प्रव्रज्यार्थ, तेनाप्यागत्य शय्यातरः पृष्टःकाचार्यः १, सोऽपि रुष्टः सन्नाह-यः कथयित्वा ब्रजति स ज्ञायते, तं तु को जानाति ?, तमाकर्ण्य स श्रावकः कदाचिद्दर्शनमप्युज्झति, लोकज्ञानमप्येषां नास्ति कुतः परलोकज्ञानमिति?, कदाचित्साधुः कश्चित्तमाचार्य अभिधार्य-मनसि कृत्वा उपसंपदादानार्थमायाति, सोऽपि शय्यातरं पृच्छति, शय्यातरोऽप्याह-न जाने क गत इति, ततः स साधुः अनाचारवानाचार्य इति विचिन्त्यान्यत्र गतः, सोऽपि निर्जराया आचार्योऽनाभागी जात इति । 'तेणग'त्ति कदाचित्तद्गृहं केनचित्तस्मि-1 नेव दिवसे मुष्ट भवेत्तत एवंविधा बुद्धिर्भवेत्-यदुत स्तेनास्ते इत्येवं शङ्कां करोति, आदिशब्दाघोषित् केन केचित्सह गता|
CASSESC-SSC
दीप अनुक्रम [२५६]
SACX
शय्यात्तर संबंधी विधानानि
~146~