________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२३२] → “नियुक्ति: [१५२] + भाष्यं [७७] + प्रक्षेपं [५-१२]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१५१||
| तत्र वामपापिषिष्टपूर्वाभिमुखवृषभरूपं क्षेत्र बुझ्या कल्पयित्वा तत इदमुच्यते-'शृङ्गखोडे' शृङ्गप्रदेशे यदि वसति | करोति ततः कलहो भवतीति क्रिया वक्ष्यति, 'स्थानं' अवस्थितिर्नास्ति 'चरणेषु' पादप्रदेशेषु, 'अधिष्ठाने' अपानप्रदेशे वसती क्रियमाणायामुदररोगो भवतीति क्रिया सर्वत्र योजनीया । 'पुच्छे' पुच्छप्रदेशे 'फेडणं' अपनयनं भवति वसत्याः॥ मुखमूले चारी भवति, शिरसि-शृङ्गयोर्मध्ये ककुदे च पूजासत्कारो भवति, स्कन्धे पृष्ठे च भारो भवति, साधुभिराग-18 च्छनिराकुला भवति, उदरप्रदेशे तु नित्यं तृप्त एव भवति क्षेत्रवृषभः । वसतियाख्याता, तद्व्याख्यानाच देवकुलशून्यगृहाद्यपि व्याख्यातमेष द्रष्टव्यम् । इयं च वृषभपरिकल्पना यावन्मानं वसतिनाऽऽक्रान्त तस्मिन् नोपरिष्टात् , उपरिष्टात्तु । तदनुसारेण कर्त्तव्या वसतिः । अधुना 'पाउग्गअणुण्णवण'त्यमुमेवावयवं व्याख्यानयन्नाह, तत्र प्रायोग्यानामनुज्ञापना कर्तव्या-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः| दवे तणडगलाई अच्छणभाणाइधोवणा खेत्ते । काले उच्चाराई भावेण गिलाणकूरुवमा ।। ७८॥ (भा०) _ 'द्रव्यतः' द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थे डगलानां च-अधिष्ठानपोछनार्थ लेष्ट्रनामनुज्ञापना क्रियते । 'क्षेत्रे' क्षेत्रविपयाऽनुज्ञापना 'अच्छण'ति आस्या यत्रास्यते यथासुखेन स्वाध्यायपूर्वकं 'भाणादिधोवणा' भाजनादिधावन-क्षालनं पात्र-15| कादेयंत्र क्रियते सा क्षेत्रानुज्ञा । कालविषयाऽनुज्ञा दिवा रात्री वा उच्चारादिव्युत्सर्जनम् । भावविषयाऽनुज्ञापना ग्लानादेः| साम्यकरणार्थ निवातप्रदेशाधनुज्ञापना क्रियते । इदानीं 'वियालणे तस्स परिकहण'त्ति अमुमवयवं व्याख्यानयनाह, द्रा'कूरुवमा' यदा शय्यातर एवं ब्रूते-इयति प्रदेशे मयाऽवस्थानमनुज्ञातं भवतां नोपरिष्टात् , तदा तस्य परिकथना क्रियते
दीप अनुक्रम [२३१]
SEॐॐॐॐ
अब अष्टा प्रक्षेप-गाथा: वर्तते. मया संपादित "आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके सा मुद्रितं वर्तते
~140~