________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०४६], भाष्यं [१८९...]
(४०)
प्रत सूत्रांक
किमर्थमिति !, आह-प्रयोजनार्थ षष्ठी विवक्षातः प्रयुक्ता सम्बन्धलक्षणाऽवयवलक्षणा वा, योऽसौ योगस्त्रिकालविषयस्तस्यातीतं सावद्यमंशमवयवं प्रतिक्रमामि न शेषं वर्तमानमनागतं वा, केचित् पुनरविभागज्ञाः अविशिष्टमेव सामान्य योग सम्बन्धयन्ति, तन्न युज्यते, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणप्रयोजनाभावात् , ग्रन्थगुरुत्वापत्तेश्च, अविशिटमपि संवध्य पुनर्विशेषेऽवस्थापनीयस्तच्छब्द इति ग्रन्धगुरुता, यदेतत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितमतः प्रायश्चित्तमासेवितेऽतीतविषयमिति गतत्वादतीतप्रतिक्रमणमिति न वक्तव्यम् , इह पुनरुक्तत्वप्रसङ्गात् , यस्मादस्य प्रतिकKIमामीतिशब्दस्य कर्मणा भवितव्यमवश्यं, तच्च भूतं सावद्ययोगं मुक्त्वा नान्यत् कमें भवितुमर्हति, तस्मात्तस्येत्यवयवलक्ष-15 प्रणया षष्ठ्या सम्बन्धः ॥ आह-यद्येवं पुनरुक्तादिभयादभिधीयते तत इदमपरमाशङ्कापदमिति दर्शयतितिविहेणंति न जुत्तं पडिपयविहिणा समाहि जेण । अत्थविगप्पणयाए गुणभावणयत्तिको दोसो?॥१०४७॥
व्याख्या-'त्रिविधं त्रिविधेने त्यत्र त्रिविधेनेत्ययुक्तमिति, अत आह-'प्रतिपदविधिना समाहितं येन' यस्मात् प्रतिपदमभिहितमेव, मनसा वाचा कायेने'ति, अत्रोच्यते, अर्थविकल्पनया गुणभावनयेति वा को दोषः, एतदुक्तं भवति-18 | अर्थविकल्पसङ्ग्रहार्थ न पुनरुक्तम् , अथवा गुणभावना पुनः पुनरभिधानाभवतीति न दोषः, अथवा मनसा वाचा कायेनेत्यभिहिते प्रतिपदं न करोमि न कारयामि नानुजानामीति 'यथासङ्ख्यमनुदेशः समानाना मिति यथासङ्ख्यकमनिष्टं मा प्रापदिति त्रिविधेनैकैकमुच्यते, त्रिविधमित्यत्राप्ययमेव प्रायः परिहार इति गाथार्थः ॥ १०४७ ॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'तस्य भदन्त ! प्रतिक्रमामी'त्यत्र भदन्तः पूर्ववद् अतिचारनिवृत्तिक्रियाभिमुखश्च तद्विशुद्ध्यर्थमामन्त्रयत इति
दीप अनुक्रम
ॐ
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~970~