________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०४४], भाष्यं [१८९...]
(४०)
प्रत सूत्रांक
454544545
मेव तथा क्रियारूपेण परिणतेरित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, अपरस्त्वाह-न करोमि न कार-16 यामि कुर्वन्तं न समनुजानामीत्येतावता ग्रन्थेन गतेऽन्यमपीत्यतिरिच्यते, तथा चातिरिक्तेन सूत्रेण नार्थः, उच्यते, साभिप्रायकमिदम् , अनुक्तस्याप्यर्थस्य सङ्ग्रहार्थ, यस्मात् सम्भावनेऽपिशब्दोऽयं, सोऽयमपिशब्द: उभयशब्दमध्यस्थ एतत् । करोति-यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यनुज्ञापयन्तमप्यन्यं नानुजानामि, तथा यथा वर्तमानकाले कुर्वन्तमन्यं न समनुजानामीति एवमपिशब्दादतीतकाले कृतवन्तमपि कारितवन्तमपि तथाऽनागतेऽपि काले करिष्यन्तमपि कारयिष्यन्तमपीति त्रिकालोपसङ्ग्रहो वेदितव्य इति, न क्रियाक्रियावतोभद एव अतो न केवला क्रिया सम्भवतीति ख्यापनार्थमन्यग्रहणम्, अत्रापि बहु वक्तव्यं तत्तु नोच्यते मा भूत् मुग्धमतिविनेयसम्मोह इति, किश्चित्तु सूत्रस्पर्शनियुंक्ती वक्ष्याम इति । एवं तावदिदमेतावत् सूत्रस्य व्याख्यातम् ॥ इह च सर्व सावर्य योर्ग प्रत्याख्यामीत्यत्र प्रत्याख्यानं गृहस्थान साधूंश्चाधिकृत्य भेदपरिणामतो निरूपयन्नाहसीआलं भंगसयं तिविहं तिविहेण समिइगुत्तीहिं । सुत्तफासिअनिजुत्तिवित्थरत्यो गओ एवं ॥१०४५ ॥ | व्याख्या-गुरवस्तु व्याचक्षते-तदिदमेतावत् सूत्रस्य व्याख्यातं, साम्प्रतं त्रिविधं त्रिविधेनेत्येतदेव किल व्याचष्टे, तत्र त्रिविधं सावध योग प्रत्याख्येयं कृतकारितानुमतिभेदभिन्नं त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति यतः अतस्त| दोपदर्शनार्यवाऽऽह-सिआलं भंगसर्य गाहा ।। अत्राऽऽह-यद्येवमिह सर्वसावधयोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशद|धिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यानभेदत्वादयुक्तमेतदिति, अत्रोच्यते, न, प्रत्याख्यानसामान्यतो गृहस्थप्रत्या
दीप अनुक्रम [२]
TEMibrary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'प्रत्याख्यान'स्य निरूपणं
~964~