________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
आवश्यक हारिभ
द्रीया
॥४६९ ॥
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [१], मूलं [२] / [गाथा - ], निर्युक्तिः [१०२७...], भाष्यं [१७७]
१
मन्यते इयमत्र भावना-सामान्यग्राहिणो नैगमनयस्योद्दिष्टमात्र एव सामायिके गुरुणा शिष्योऽनधीयानोऽपि तत्क्रियाऽननुष्ठायी सन् सामायिकस्य कर्ता वनगमनप्रस्थितप्रस्थककर्तृवत् यस्मादुद्देशोऽपि तस्य कारणं सामायिकस्य, तस्मिंश्च कारणे कार्योपचारः, 'उवडिए संगहो य ववहारो'ति सङ्घहो व्यवहारश्च मन्यते उपस्थितः सन् कारको भवतीति, इयमत्र भावना - इहोद्देशानन्तरं वाचनाप्रार्थनाय यदा वन्दनं दत्त्वोपस्थितो भवति तदा प्रत्यासन्नतरकारणत्वात् सग्रहव्यवहारयोः कारक इति, ऋजुसूत्र आक्रामन् कारको भवतीति मन्यते, एतदुक्तं भवति - उद्देशानन्तरं गुरुपादमूले वन्दित्वोपस्थितः - सामायिकं पठितुमारब्धः कारकः, वृद्धास्तु व्याचक्षते न पठन्नेव, किन्तु समाप्तेः कारक इति सामायिकत्रियां वा प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः, यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिये असाधारण कारणम्, असाधारणकारणेन च व्यपदेश इति, 'सह समत्तंमि उवउत्तोत्ति शब्दादयो नया मन्यन्ते -समाप्ते सत्युपयुक्त एव कारको भवति, त्रयाणां च शब्दादीनां नयानां शब्द क्रियावियुक्तोऽपि सामायिकोपयुक्तः कारकः, मनोज्ञतथापरिणामरूपत्वात् सामायिकस्येति भावना, अयं गाथार्थः ॥ १७७ ॥ कदा कारक इति गतं, नयतो-नयप्रपञ्चत इत्यर्थः, अथवा कदा कारक इत्येतावद् द्वारं गतं, नयत इत्येतत्सु द्वारान्तरमेव, अतस्तदभिधित्सयाऽऽह
आलोअणा य १ विणए २ खित्त ३ दिसाऽभिग्गहे अ ४ काले ५ ।
रिक्ख ६ गुणसंपया वि अ ७ अभिवाहारे अ ८ अट्ठमए ॥। १७८ ॥ ( दा० ५ ) ( भा० ) व्याख्या - इहाऽऽभिमुख्येन गुरोरात्मदोषप्रकाशनम् - आलोचनानयः, तथा विनयश्च पदधावनानुरागादिः, तथा
For Parts Only
सूत्रस्पर्श०
करणस्व० वि० १
~941~
॥४६९॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः