________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम [२]
Jus Educatio
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [१], मूलं [२] / [गाथा- ], निर्युक्तिः [१०१६...], भाष्यं [१५६ ]
चेति गाथासमासार्थः ॥ व्यासार्थं तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादेवाजीवप्रयोगकरणमादावेवाभिधित्सुराहजं जं निजीवाणं कीरइ जीवप्पओगओ तं तं । वन्नाइ रुवकम्माह वावि अज्जीवकरणं तु ॥ १५७ ॥ ( भा० ) व्याख्या- यद् यन्निर्जीवानां पदार्थानां क्रियते निर्वर्त्यते 'जीवप्रयोगतो' जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादा अजीवविषयत्वात्तदजीवकरणमिति गाथार्थः ॥ जीवप्पओगकरणं दुविहं मूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमंमि ॥ १५८ ॥ ( भा० ) व्याख्या -- जीवप्रयोगकरणं 'द्विविधं' द्विप्रकारं मूलप्रयोगकरणमुत्तरप्रयोगकरणं च चशब्दस्य व्यवहित उपन्यासः, पञ्च शरीराणि 'प्रथमं मूलप्रयोगकरणमिति गाथार्थः ॥
ओरालियाइआई ओहेणिअरं पओगओ जमिह । निष्फण्णा निष्फल आइल्लाणं च तं तिन्हं ॥ १५९ ॥ (भा० )
व्याख्या - औदारिकादीनि, आदिशब्दाद्वैक्रियाहारकतैजसकार्मणशरीरपरिग्रहः, 'ओघेन' इति सामान्येन, 'इतरत्' उत्तरप्रयोगकरणं गृह्यते, तल्लक्षणं चेदं 'प्रयोगतः' प्रयोगेणैव यद् 'इह लोके निष्पन्नाः, मूलप्रयोगेण निष्पद्यत इति 'तद्' उत्तरकरणं, आद्यानां च तत् त्रयाणाम्, एतदुक्तं ( नं ११५०० ) भवति पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणमीदारिकादीनां त्रयाणां न तु तैजसकार्मणयोः, तदसम्भवादिति गाथार्थः ॥ १५९ ॥ तत्रैौदारिकादीनामष्टाङ्गानि मूलकरणानि तानि चामूनि
For Parts Use Only
www.joncibrary.o
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~918~