________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९८७], भाष्यं [१५१...]
(४०)
उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात् , तथा अजरा वयसोऽभावात् , अमरा आयुषोऽभावात् , असङ्गाश्च सकलले | शाभावादिति गाथार्थः ॥ ९८७ ॥ साम्प्रतमुपसंहरन्नाहनिच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सुक्खं अणुहुंती सासर्य सिद्धा ॥९८८ ॥
व्याख्या-वस्तुतो व्याख्यातैवेति न प्रतन्यते ॥ सिद्धाण नमोकारो जीवं० ॥ ९८९ ।। सिद्धाण नमुक्कारो धन्नाण०॥९९०॥सिद्धाण नमुक्कारो एवं० ॥ ९९१॥ सिद्धाण नमुक्कारो सव. विइ होइ मंगलं ॥९९२ ॥ ___ गाथासमूहः सामान्यतोऽर्हन्नमस्कारवदवसेयः, विशेषतस्तु सुगम एवेति ॥ उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारः, तत्राचार्य इति कः शब्दार्थः, उच्यते,-'चर गतिभक्षणयोः' इत्यस्य ( चरेः) आङि वा गुरा (पा० ३१-१०० वार्तिके ) विति ण्यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत इत्यर्थः, अयं च नामादिभेदाच्चतुर्विधः, तथा चाऽऽहनामंठवणादविए भावमि चउव्विहो उ आयरिओ। दबंमि एगभविआई लोइए सिप्पसस्थाई ॥९९३ ॥
व्याख्या नामाचार्यः स्थापनाचार्यः द्रव्याचार्यो भावाचार्य इति, तत्र नामस्थापनाचायौं सुगमौ, द्रव्याचार्यमागमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वादनादृत्य ज्ञशरीरादिव्यतिरिक्त द्रव्याचार्यमभिधातुकाम आह'द्रव्य' इति द्रव्याचार्यः, 'एकभविकादिः' एकभविकः बद्धायुष्कः अभिमुखनामगोत्रश्चेति, अथवा आदिशब्दाद्
अनुक्रम
[१]
SANEairaula
मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'आचार्य' अर्थ, चतुर्विध-भेदाः, स्वरुपम्, तस्य नमस्कारस्य फलम्
~898~